विवेकचूडामणि
Śloka 104
Glossary
View Book
Verse
श्लोकः
Expand all
1
उच्छ्वास-निःश्वास-विजृम्भण-क्षुत्-प्रस्पन्दनाद्युत्क्रमणादिका क्रियाः ।
2
प्राणादिकर्माणि वदन्ति तज्ज्ञाः प्राणस्य धर्माविशना-पिपासे ॥१०४॥
Śloka 103
All Ślokas
Śloka 105
Commentary
व्याख्या
Expand all
1
प्राणादीत्यादिपदेन अपानादीनां नागादीनां चापरिग्रहः ।
2
उच्छ्वासः प्राणस्य, निःश्वास अपानस्य, विजृम्भणं देवदत्तस्य, क्षुतं कूकरस्य, प्रस्पन्दनं प्रकर्षण चलनं व्यानस्य धनंजयस्य वा ।
3
आदिपदेन उन्मीलनपरिग्रहः । तत्र कूर्मस्य, उत्क्रमणमुदानस्य, आदिपदेन वमनं तदपि तस्यैव ।
4
एतानि कर्माणि प्राणादीनां तज्ज्ञाः वदन्ति । इदिमदं कर्म अस्येति विशेषज्ञाः ।
5
एवंशना-पिपासा च प्राणस्य धर्मौ ।
6
अत एव निद्रायां क्षुत्पिपासाद्यभावः तदा प्राणे अभिमानाभावात् ॥१०४॥
Śloka 103
All Ślokas
Śloka 105