विवेकचूडामणि
Śloka 105
Glossary
View Book
Verse
श्लोकः
Expand all
1
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
2
अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥१०५॥
Śloka 104
All Ślokas
Śloka 106
Commentary
व्याख्या
Expand all
1
अन्तःकरणं मनः, एतेषु चक्षुरादिषु ज्ञानेन्द्रियेषु वागादिकर्मेन्द्रियेषु प्राणादिषु, वर्ष्मणि स्थूलशरीरे च,
2
आभासतेजसा चित्रफलन-प्रयोज्य-तेजसा जीवेत्यर्थः ।
3
अहमित्यभिमानेन अज्ञानप्रयोज्येन तादात्म्यभिमानेन तिष्ठति ।
4
यतः विवेकशून्यं आत्मानात्म-विवेकशून्यं अन्तःकरणं स्वप्रतिबिम्बं गृहीत्वा चेतनीभूय चक्षुरादिकं शरीरान्तं अहमित्यभिमन्यते
5
अतः तद्वशः आत्मापि तद्धर्मं अन्धत्वादीन् स्वस्मिन्कल्पयित्वा अहमन्ध इत्यादिरीत्या व्यवहर्तीत्यर्थः ।
6
सुषुप्तावन्तःकरणे आत्मप्रतिफलनमपि नास्ति अहमन्य इत्यादिव्यवहारोपि नास्ति ।
7
एवं स्वप्ने प्रतिफलनसत्वेपि चक्षुरादौ आभासतेजस अन्तःकरणं न तिष्ठति स्वप्ने बाह्यकरणगणस्य लयादित्यपि वेदितव्यम् ।
8
तेनैव स्वप्नेपि अन्धत्वादिव्यवहारः जाग्रतीव नास्तीति भावः ॥१०५॥
Śloka 104
All Ślokas
Śloka 106