विवेकचूडामणि
Śloka 106
105
All
107
Glossary
विवेकचूडामणि
Śloka 106
100%
Commentary — व्याख्या
1
एवं चित्रप्रतिबिम्ब-विशिष्टमन्तःकरणमेव चक्षुरादौ शरीरेच अहमित्यभिमानेन वर्तमानं अहंकार इति विज्ञेयं ।
2
स इति विशयप्राधान्यनिर्देशः ।
3
अयमेव कर्ता भोक्ता इत्यभिमानी ।
4
अस्य सत्वरजस्तमोरूप-गुणत्रयमय-प्रकृतिकार्यत्वात् सत्वादिगुणयोगेन अवस्थात्रितयं जाग्रत्-स्वप्न-सुषुप्तिरूपावस्थात्रयं अयं अश्नुते प्राप्नोति ।
5
रजोगुणयोगेन जागरः, सत्वयोगेन स्वप्नः, तमसा सुषुप्तिरिति भेदः ।
6
सर्वदा गुणत्रयसत्वेपि तदा तदा तत्तद्गुणस्योत्कटत्वं ज्ञेयम् ॥१०६॥
105
All
107
En