विवेकचूडामणि
Śloka 107
Glossary
View Book
Verse
श्लोकः
Expand all
1
विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।
2
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥१०७॥
Śloka 106
All Ślokas
Śloka 108
Commentary
व्याख्या
Expand all
1
विषयाणां शब्दादीनां आनुकूल्यं स्वकीयेच्छानुसारेण संप्राप्तौ सुखी, अहं सुखीति प्रतीतः ।
2
विपर्यये प्रातिकूल्येन स्वेच्छाविरोधेन प्रसक्तौ दुःखी, अहं दुःखीत्यभिमानः ।
3
अतः सुखं दुःखं च तद्धर्मः तदिच्छानुरोधित्वा-त्यो:, सदा सर्वदा आनन्दस्य आनन्दस्वरूपस्य "आनन्दो ब्रह्म" "विज्ञान-मानन्दं ब्रह्म" "रसो वै सः" "यदेष आकाशः" इत्यादिश्रुतिभ्यः, आत्मनः न धर्म इत्यनुपजते ।
4
युज्यते चैतत् विचार्यमाणे कालान्तरे यः शब्दः सुखमजीजनत् स एव कालान्तरे दुःखं जनयतीति प्रसिद्धं लोके ।
5
तत्र मनोभेदेन विना नान्यस्य हेतुर्भावः विषयस्यैकरूपत्वात् कालस्य च ।
6
तेनैव शब्देन पुरुषान्तर-मुखोत्पत्तेर्दर्शनात् तस्मिन्नेव काले अहेतुत्वायोगात् ।
7
मनस्तु पूर्वमिमं शब्दं अनुकूलं व्यजानात् इदानीं तु प्रतिकूलं मन्यते इति तस्यैव सुखं दुःखं च धर्म इति ॥१०७॥
Śloka 106
All Ślokas
Śloka 108