विवेकचूडामणि
Śloka 108
Glossary
View Book
Verse
श्लोकः
Expand all
1
आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः ।
2
स्वत एव हि सर्वेषां आत्मा प्रियतमो यतः ॥१०८॥
Śloka 107
All Ślokas
Śloka 109
Commentary
व्याख्या
Expand all
1
हि यस्मात्कारणात् विषयः स्वतः विषयत्वेन हेतुना न प्रियः प्रीति-गोचरः किंतु आत्मार्थत्वेन आत्मनः सुखं दुःखनिवृत्तिं वा जनयतीति प्रेयान् प्रमिविषयः ।
2
यदि स्वत एव च विषयत्वेन शब्दादिरूपत्वेन प्रेयांस्यात् कदापि प्रेयस्त्वं न व्यभिचरेत् ।
3
त्यजन्ति पूर्वमिष्टत्वेन ज्ञातमपि शब्दादिकं पुत्रमित्र-कलत्रादिकंच ।
4
शरीरमपि दण्डयन्ति प्राणं निरुन्धन्ति मनश्च लयमापादयन्ति किमन्यत्, आनन्दमयकोशत्वेन प्रसिद्धं अज्ञानमपि भंजयन्ति ।
5
तत्र कारणं इतरत्र आनन्दरूपत्वाभावः आनन्द-प्रयोजकत्वस्याप्यनित्यत्वम् ।
6
आत्मनस्तु आनन्दत्वस्य स्वतःसिद्धत्वम् उक्तं हि "मा तभूवं हि भूयासमिति प्रेमात्मनीश्यते" इति ।
7
कदापि माभूवमिति न, अपितु सर्वदा भूयासमिति तदर्थः ।
8
तत्तु आत्मनः एकस्यैव युज्यते, स्थूलं स्वप्ने न भासते सूक्ष्मं सुषुप्तौ न, कारणं न समाधौ ।
9
शब्दादिविषयाश्च न सुषुप्तिसमाधोः । यदा स्थितिस्तेषां जागरस्वप्नयोः तदापि नैयत्येन आनन्दजनकत्वाभावस्तात् ।
10
अतः सर्वावस्थासु अनुवर्तमानः विषयाद्यभावेपि सकलप्राणिसिद्धतया सुषुप्तौ, ज्ञात्यनुभवेन समाधौ च आनन्दरूपत्वेन अनुभवगोचरः आत्मा स्वत एव निरुपाधिकतया सर्वेषां प्राणिनां प्रियतमो मतः, हि यस्मात् ॥१०८॥
Śloka 107
All Ślokas
Śloka 109