विवेकचूडामणि
Śloka 109
Glossary
View Book
Verse
श्लोकः
Expand all
1
तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।
2
यत्सुषुप्तौ निविशय आत्मानन्दोनुभूयते ।
3
श्रुतेः प्रत्यक्षमेतिहां अनुमानं च जाग्रति ॥१०९॥
Śloka 108
All Ślokas
Śloka 110
Commentary
व्याख्या
Expand all
1
ततः सर्वदा सर्वैप्राणिप्रियतमत्वात् आत्मा सदानन्दः सर्वदायानन्द-स्वरूपः ।
2
अस्य दुःखं आनन्दस्वरूपस्य, कदाचन कदापि नास्तीत्यर्थः ।
3
तत्रानुभवे प्रमाणयति यदित् ।
4
यस्मात्सुषुप्तौ अवस्थायां, निविशय अनादहेतु-लेनाभिमत-शब्दस्पर्श-रूपरस-गन्धादि-सकलविषय-संबन्धविमुक्तः, आत्मानन्दः स्वरूपानन्दः स्वभाविसिद्धः अनुभूयते, सर्वैरपीति शेषः ।
5
अस्यानुभवस्य देहात्मानुभवव्याप्तित्वे वक्तव्यमित्याह श्रुतिरिति ।
6
"एषोस्य परम आनन्दः" "एषास्य परमा संपत्" इति सौषुप्तानन्दस्यैव अज्ञानि-परमानन्दत्वसंकीर्तनात् ।
7
युक्तं होत्तु वैषधिकानन्दः सामयः अयं निरामय इति ।
8
अत एव किल सर्वैभोगमोपि सहस्रशः विषयान् लब्धुं भोक्तुं समर्थोपि निद्रां विना जीवितुं न प्रभवति ।
9
तत्र कारणं स्वरूपानन्दस्य दुःखालिप्तत्वं ।
10
तदुक्तं "को होवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्" इति ।
11
आकाश आकाशवलिप्त इत्यर्थः ।
12
सुषुप्तौ यदपि तमसा आव्रियते सुखम्, अथापि जाग्रत्स्वप्न-सुखापेक्षया तस्य परमत्वे, किं वक्तव्यं तमस्यपि ज्ञायमाने आनि-विगमे भ्राजमानः सूर्य इव स्वयं प्रकाशमानः आत्मानन्दः ईदृगिति ।
13
एवं श्रुतिः, प्रत्यक्षं साक्षिप्रत्यक्षं सर्वजनसिद्धं, ऐतिह्यं अभियुक्तानां वचनं, अनुमानं आत्मा सदानन्दत्वरूपः सदा निरतिशयप्रेमास्पदत्वात् यस्यैवं तस्यैवं, यथा शब्दादिः इत्यादि च जाग्रति प्रमाणानि आत्मनः सदानन्दत्व-विषये ॥१०९॥
Śloka 108
All Ślokas
Śloka 110