विवेकचूडामणि
Śloka 110
Glossary
View Book
Verse
श्लोकः
Expand all
1
अव्यक्तनाम्नी परमेशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा ।
2
कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥११०॥
Śloka 109
All Ślokas
Śloka 111
Commentary
व्याख्या
Expand all
1
अव्यक्तमिति नाम यस्याः, तस्याः प्रत्यक्षं अनुपलभात् ।
2
तत्र हेतुः रूपादिरहितत्वं ।
3
परमेशस्य परमेश्वरस्य ब्रह्मणः, शक्तिः अचिन्त्य-भूतशक्तिः
4
न विद्यते आदिः यस्याः सा अनादिः सा च सा अविद्या च ।
5
वस्तुतः न विद्यते इत्यविद्या अनाद्यविद्या ।
6
त्रयो गुणाः सत्वरजस्तमांसि यस्यां तथाविधः आत्मा स्वरूपं यस्यां त्रिगुणात्मिका ।
7
यद्वा त्रयो गुणाः त्रिगुणाः त एव आत्मा यस्याः गुणत्रयस्वरूपेत्यर्थः ।
8
परा हिरण्यगर्भादि-स्वकार्येभ्यः परा उत्कृष्टा तत्कारणत्वात्
9
अव्यक्तनाम्ल्वे हेतुमाह कार्यानुमेया रूपाद्यगोचरत्वाभावेपि शब्दादिभिः गगनादिकमिव कार्यलिङ्गेनानु-मेया ।
10
एतच्छक्यनंगीकारे निर्गुणस्य ब्रह्मणः सष्टुत्वायोगात् निष्कारणं कार्योत्पत्तियोगात् खादिसकलविकारहेतुत्वेन श्रुत्या प्रतीयमानेक्षण-संकल्पादि-परिणामत्वेन मायायाः सिद्धिरिति भावः ।
Śloka 109
All Ślokas
Śloka 111