विवेकचूडामणि
Śloka 111
Glossary
View Book
Verse
श्लोकः
Expand all
1
सत्त्वापसत्त्वाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो ।
2
सांगाप्यनंगाप्युभयात्मिका नो महाद्भुतानिर्वचनीयरूपा ॥१११॥
Śloka 110
All Ślokas
Śloka 112
Commentary
व्याख्या
Expand all
1
लोके तावतु अवाधितस्य सत्वं बाध्यमानस्य असत्वलं प्रसिद्धं यथा ऋतस्यानृतस्य च ।
2
कदापि कस्यापि अप्रतीयमानस्य असत्वं शशविषाणगङ्कुमादे ।
3
इयं तु माया "भूयश्चान्ते विश्वमायानिवृत्तिः" "तत्रत्यविचारे वितताने हृदये यस्मिन्विवेशिते । योगी माया तस्मै विद्यात्मने नमः" । "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" इत्यादिश्रुतिस्मृतिभ्यः ज्ञानाध्यत्वेनावगम्यते ।
4
अतः तस्याः आत्मवस्त्वं दुर्वचम् ।
5
"नाभावो विद्यते सतः" इति गीतायाश्च अस्याः ज्ञानानन्तरं अभावावश्यंभावात् न सत्वं ।
6
ज्ञानात्प्राक् कार्येणप्रतीयमानत्वेन च न शशविषाणवदसत्वं सुवचम् ।
7
सत्वासत्वयोः व्याप्यवृत्तित्वेन कालभेदेन एकत्र स्वीकर्तुमनुचितत्वेन नोभयात्मकत्वं तस्याः ।
8
एकैकरूपत्वाभावे उभयात्मकत्वस्य अत्यंतासंभवाच्च ।
9
यथा स्वाधिनकपदार्थानां ऐन्द्रजालिकपदार्थानां च दृष्टान्तस्वाभिमत-स्वदरादिलक्षणत्वकल्पं तथा अस्या अपि भावः ।
10
उक्तं हि "नासतो विद्यते भावः नाभावो विद्यते सतः उभयोरपि दृष्टोन्तस्तत्वदिभिः" इति गीतायाम् ।
11
यद्यपि लौकिकाः पूर्वमुत्पत्तेः अत्यन्तमसतः घटादिवत् उत्पत्त्यनन्तरं सत्वेन अभ्युपगतस्य तस्य नाशे अभावं चांगीकुर्वन्ति तदसंगतमिति सर्वज्ञेन भगवतोक्तम् ।
Śloka 110
All Ślokas
Śloka 112