विवेकचूडामणि
Śloka 112
Glossary
View Book
Verse
श्लोकः
Expand all
1
शुद्धाद्वय-ब्रह्मविबोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा ।
2
रजस्तमस्सत्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥११२॥
Śloka 111
All Ślokas
Śloka 113
Commentary
व्याख्या
Expand all
1
अनयोरुभयोः अन्तः निर्णयः तत्त्वदिभिः दृष्टिति कथयता ।
2
इत्यंच इयं माया सत् सद्वस्तुत्वे न, असद्वस्तुत्वे न उभयात्मिका सदसदात्मिका नो ।
3
अपितु सत्वासत्वाभ्यां निर्वचनुमशक्यत्वात् अनिर्वचनीयरूपा ।
4
यथा सत्वेन वा असत्वेन वा ब्रह्मणो भिन्नत्वेन अभिन्नत्वेन च अभिन्नत्वेन अनिर्वचनीयाह् ।
5
ब्रह्मणोत्यन्तभिन्नत्वे अद्वैतबोध-श्रुतिविरोधात् लोकेपि शक्तेः शक्तिमतोत्यन्त-भेदाभावाच्च ।
6
एवंभिन्नत्वे तस्याः बाधायोगात् ब्रह्मणः कालत्रयावाधित्वात् ।
7
भिन्नाभिन्नत्वे विरुद्धे अतः भिन्नापि न अभिन्नापि न उभयात्मिकापि न उभयात्मिकापि नो भवतीत्यर्थः ।
8
एवं अनादित्वेन सांगापि सावयवत्व-सावयत्व[?] जन्यत्व-परिणामा-संभवात् तदपि वक्तुमशक्यम् ।
9
अतः अनंगा अनवयवापि न ।
10
उभया-त्मिकापि नो सावयत्वनिरवयत्वयोः एकत्र विरोधादेव ।
11
अतः सत्वासत्वाभ्यां भिन्नाभिन्नाभ्यां सांगानंगाभ्यां निर्वचनमशक्यं रूपं यस्याः सा अनिर्वचनीयरूपा महाद्भुता अत्यंताश्चर्यरूपा ॥१११॥
12
संगस्तुपाधि-कल्पितः, वास्तविकमसंगत्व-मित्युपादयति सर्वेति ।
13
शुद्धं निर्गुणं अद्वयं सजातीय-विजातीय-स्वगतभेदशून्यं यद्ब्रह्म तस्य विबोधः अभेदेन साक्षात्कारः तेन नाश्या तज्जन्यध्वंस-प्रतियोगिनी ।
14
तत्र अयं सर्पं इति भ्रमः, रज्जुविवेकतः यथा कल्पित-सर्पविषट्च-भूतरज्जुसाक्षात्कारेणेव नायं सर्पः किंतु रज्जु-रित्याकारेण ।
15
तेन निर्गुणे अद्वितीये कल्पितायाः मायायाः अधिष्ठानतत्त्व-साक्षात्कारवाध्यत्वमुक्तम् ।
16
यदुक्तं पूर्वं कार्यानुमेया सुधियैव माये इति तद्विशदयति, तद्धर्म-गुणकार्य-प्रतिपादनमुखेन रजस्तैलादिना ।
17
तदीयाः इमे माया-संविभिन्नः गुणाः धर्माः रजः तमः सत्वमिति प्रसिद्धाः ।
18
तेषामप्रत्यक्षत्वात् कार्यमुखेन प्रसिद्धिमाह प्रथितैरिति ।
19
प्रसिद्धेः तत्तद्गुणकार्यैः वक्ष्यमाणाः ॥११२॥
Śloka 111
All Ślokas
Śloka 113