विवेकचूडामणि
Śloka 113
Glossary
View Book
Verse
श्लोकः
Expand all
1
विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसुतापुराणी ।
2
रागादयोस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः ॥११३॥
Śloka 112
All Ślokas
Śloka 114
Commentary
व्याख्या
Expand all
1
मायायां सन्ति तिस्रः शक्तयः । विक्षेपशक्तिः आवरणशक्तिः ज्ञानशक्तिश्चेति तत्त्वकर्तृत्वं, तृतीया मोक्षहेतुः ।
2
तत्र विक्षेपशक्तिः रजसः रजोगुणस्य, क्रियात्मिका कार्यरूपा ।
3
यदा उद्रिच्यते रजः तदा विक्षेपः बहुधा भवन्तीति ज्ञेयमित्यर्थः ।
4
यतः रजःकार्यभूत-विक्षेपशक्त्येकसाक्षात् पुराणी अनादिकालसिद्धा प्रवृत्तिः संसारहेतुभूता प्रवृत्तिः प्रसूता विस्तृता ।
5
सा जीविया वा पंचसृष्टिहेतुभूता ईश्वरीया वा भवतु पंचसृष्टिरेपि विक्षेपशक्तिसाकात् ।
6
तत्रैवरस्य शुद्धसत्व-प्रधान-मायोपहितत्वात् तस्याः स्वाधीनत्वाच्च न वन्धस्य प्रसक्तिरिति ।
7
जीवस्य तु मलिनसत्वप्रधानाविद्योपाधिकत्वात् ज्ञानशक्तेः रजस्तमोभ्यां प्रतिहय्यमानत्वात् उपाधीनत्वं तत्कृतवन्धत्वं चेति ।
8
रागादय इत्यादिकं कर्मविषयेषु ज्ञेयम् ।
9
अस्याः रजोविक्षेपशक्तेः साक्षात् रागद्वेषादिसूचनात् प्रवृत्तिहेतोः नित्यं जीवस्य प्रभवन्ति ।
10
तत् येमनसो विकाराः दुःखादयः, दुःखर्षतर्षमपादयः मनस एव नतु कदाचिदपि निर्विकारस्यात्मन इति बोधयितुं मनस इत्युक्तम् ।
11
"कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिर्धृतिः हीर्धीर्भीरित्येतत्सर्वं मन एव" इति श्रुतेः ।
12
तत्तादात्म्यध्यासात् जीवे कल्प्यन्ते न वस्तुतः तत्र सन्ति ।
13
"साक्षी चेता केवलो निर्गुणश्च" "नायोतोस्ति द्रष्टा" "निःकलं निष्क्रियं शान्तम्" इत्यादिश्रुतेः ॥११३॥
Śloka 112
All Ślokas
Śloka 114