विवेकचूडामणि
Śloka 114
Glossary
View Book
Verse
श्लोकः
Expand all
1
कामः क्रोधो लोभदम्भाभ्यसूयाहंकरेष्यां-मत्सरादस्तु घोराः ।
2
धर्मा एते राजसाः पुंप्रवृत्ति-यंसमादेतल्लव्जो बन्धहेतुः ॥११४॥
Śloka 113
All Ślokas
Śloka 115
Commentary
व्याख्या
Expand all
1
कामः विषयेच्छा
2
क्रोधः तदिभघाते जायमान-मानसवृत्तिः कोपाश्या ।
3
लोभः अर्थस्य प्राप्तौ तत्संरक्षणमति:
4
दंभः धर्मध्वजित्वं ।
5
अभ्यसूया परोत्कर्षासहनं
6
अहंकारः स्वोत्कृटत्वज्ञानं ।
7
ईर्ष्या गुणेषु दोषाविष्करणं ।
8
मत्सरः अक्षीयमाण-वस्तुपरित्यागेच्छा ।
9
आदिपदेन मद-दर्पादि-परिग्रहः ।
10
एते लोकद्वयेपि भयहेतवः अत एव घोरा इत्युक्तम् ।
11
यस्मात्काम-क्रोधादिविशिष्टः पुमान् न प्रवृत्तेर्विरमति कदाचिदपि, सर्वदापि यत्किञ्चिद्कुर्वाण एवावतिष्ठते अतः एते धर्माः राजसाः ।
12
रजः कर्मणि गीतायां सर्वदा यत्किञ्चित्कत्वमहेतुर्णां एतेषां राजसत्वं ।
13
"प्रवर्तनलक्षणा दोषाः" इति न्यायसूत्रं सर्वतो निवृत्तौ हि सुखं ।
14
अत्र कस्यापि निवृत्तिप्रयोजकत्वाभावाच्च ।
15
"लोभः प्रवृत्त्यारम्भः कर्मणामशमस्पृहा । रजस्येतानि जायन्ते विबुद्धे भारतर्षभे" इत्यपि गीता ।
16
इत्युक्त्वादगितायां पूर्वप्रवृत्तिः इत्युत्त सर्वजनानुभवसिद्धं तत् मायागुणत्वेन कथितं रजः वन्धहेतुः ।
17
कार्यकरणसंघाताध्यासस्यैव बन्धकत्वात् अध्यासं विना कर्मासंभवात् रजसः बन्धहेतुत्वं विज्ञेयम् ।
18
"न ह्यनध्यस्तात्मभावेन देहेन किञ्चद्व्याप्रियते" इत्यध्यासभाष्यात् ॥११४॥
Śloka 113
All Ślokas
Śloka 115