विवेकचूडामणि
Śloka 115
114
All
116
Glossary
विवेकचूडामणि
Śloka 115
100%
Commentary — व्याख्या
1
यया शक्त्या वस्तु अन्यथा अवभासते सच्चिदानन्दरूपं वस्तु अन्तःकरणदेहादिरूपेण भासते एषा आवृतिः तमोगुणस्य नाम आवरणशक्तिः ।
2
पुरुषस्य संसृतेः दुःखजन्म-जरामरणादिरूपायाः, निदानं आदिकारणं ।
3
भ्रान्त्या किलानात्मधर्मानपि असंसारिणि मन्यते ।
4
अतः अयथा-वस्तवावभासरूप-भ्रान्तिहेतुत्वेन आवरणशक्तिरेव संसारनिदानं ।
5
एतस्याः अभावे विक्षेपशक्तिर्किञ्चित्करेत्याह विक्षेपशक्तेः प्रसरस्य हेतुरिति ।
6
आवृतेः रज्जुस्वरूपे सर्पभ्रम-विक्षेप उत्पद्य भयादिकं जनयति नान्यथेति भावः ।
7
अत एव ज्ञानिनां भग्नावरणत्वात् प्रारब्धकर्मात्मकविषयेपि संगत्वेपि बन्धाभावः ।
8
इदं तावत् "कवलिचित्तदनाथे" इति श्लोके स्पष्टं ज्ञास्यते ।
9
लोकेपि क्वचिदस्तुनि संशयो वा विपर्ययो वा यस्य तस्यैव विक्षेपोभ्य-माणत्वं ।
10
यस्य निःकृष्टं ज्ञानं तस्य विक्षेपः नैव भवति ।
11
अतः तमोगुण-शक्तिः स्वरूपमावृत्य अन्यथा तद्वस्तवभासयन्ती विक्षेपजनन-द्वारा बन्धहेतुरिति भावः ॥११५॥
114
All
116
En