विवेकचूडामणि
Śloka 116
Glossary
View Book
Verse
श्लोकः
Expand all
1
प्रज्ञावानपि पण्डितोपि चतुरोप्यत्यन्त-सूक्ष्मार्थदृ-ग्व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोपि स्फुटम् ।
2
भ्रान्त्यारोपितमेव साधु कलयत्यालंबते तद्गुणान् हंतासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥११६॥
Śloka 115
All Ślokas
Śloka 117
Commentary
व्याख्या
Expand all
1
प्रज्ञावान् "प्रज्ञा त्रैकालिकी मता" इति मानात् कालत्रयेपि निश्चलबुद्धिमानित्यर्थः ।
2
सोपि पण्डितोपि शास्त्रज्ञज्ञानां परोक्षं पण्डा सास्येति पण्डितः ।
3
तथाविधोपि, चतुरोपि ऊहापोहविचक्षणोपि ।
4
अत्यन्तसूक्ष्मार्थदृक् प्रज्ञापाण्डित्य-चातुर्याणां अत्यन्तसूक्ष्मार्थ-दृक्त्वे हेतुत्वं ज्ञेयम् ।
5
सर्वदा निश्चलबुद्धिमता शास्त्रसाहाय्येन ऊहापोहकौशलेन च अत्यन्तसूक्ष्मात् पदार्थानि ग्रहीतुं शक्यत्वात् ।
6
एतादृशोपि पुरुषः तमसा व्यालीढः विशेषेण समन्तात् वृतस्वरूपः इत्यर्थः ।
7
पटच्छुरिपि गाढान्धकारे किं कुर्यादिति भावः ।
8
बहुधा संबोधितोपि स्फुटं न वेत्ति "श्रृणतोपि बहवो यं न विदुः" "नायमात्मा बलहीनेन लभ्यः" "न मेधया न बहुना श्रुतेन" "आश्चर्यवत्सयति काश्चिदेनं" इत्यादिश्रुतेः ।
9
भ्रन्त्या अतिसमस्तदृब्ध्या आरोपितमेव स्थूलादेहं साधु कलयति पूजावमानादीन् दृढत्वारोगत्वादीन् कर्तुत्वादीन् सूक्ष्मदेहगतांश्च ।
10
इदं तावदनुभवसिद्धं किल लोकेयत् श्रुत्या आचार्येश्च आत्मव्यतिरिक्तं सर्वं मिथ्येत्युच्यमानेपि न भ्रान्ति-जन्तानां नष्टेति ।
11
हंत कष्टं ।
12
असौ दुरन्ततमसः दुष्टः अन्तः पर्यवसानं यस्य दुरन्तं तच्च तत्मश्च तस्य अनर्थपर्यवसायिनः तमोगुणस्य आवृतिः महती शक्तिः सत्वोकर्षं विना दुनिरसा ।
13
विक्षेपशक्त्यपेक्षया प्रबला अत्यन्तं मोहहेतुत्वादिति भावः ।
14
आवरणं नाम ॥११६॥
Śloka 115
All Ślokas
Śloka 117