विवेकचूडामणि
Śloka 117
116
All
118
Glossary
विवेकचूडामणि
Śloka 117
100%
Commentary — व्याख्या
1
अभावना शास्त्रेणोच्यमानं जीवब्रह्मैक्यं पञ्चन्मिथ्यात्वं च न संभवतीति भावना ।
2
नास्तीति भावना वा नास्तिक्यमिति यावत् ।
3
विपरीतभावना शरीरादौ आत्मत्वभावना ।
4
विप्रतिपत्तिः विरुद्धप्रतिपत्तिः ।
5
संभावना संशयभावनेत्यर्थः ।
6
एकधर्मि-विशेष्यक-विरुद्धानाधर्म-प्रकारकज्ञानं संशय इति तल्लक्षणात् ।
7
एतत्त्रयं अस्याः आवरणशक्तेः संसर्गयुक्तं संबन्ध-युक्तं नरं ध्रुवं न विमुञ्चति नैव विमुञ्चतीत्यर्थः ।
8
तादृशं पुमांसं विक्षेपशक्तिः अजस्रं सर्वदा क्षपयति
9
"अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति" ॥११७॥
10
इदानीं तमोगुणकार्याणि विशदयति । अज्ञानेति ।
116
All
118
En