विवेकचूडामणि
Śloka 118
Glossary
View Book
Verse
श्लोकः
Expand all
1
अज्ञानमालस्य-जडत्वनिद्रा-प्रमादमूढत्वमुखास्तमोगुणाः ।
2
एतैः प्रयुक्तो न हि वेति किंच-निद्रालुवत्स्तंभमदेव तिष्ठति ॥११८॥
Śloka 117
All Ślokas
Śloka 119
Commentary
व्याख्या
Expand all
1
अज्ञानं उक्तस्यार्थस्याप्रतिपत्तिः
2
गीतोक्तं "एतज्ज्ञानमिति प्रोक्तं अज्ञानं यदतोन्यथा" इति मानित्वादिकं वा ।
3
आलस्यं अन्यद्यमः
4
जडत्वं कार्यकरणेषूपाटवं ।
5
निद्रा प्रसिद्धा, "अभावप्रत्ययालंबना वृत्तिर्निद्रेति" सूत्रितात् ।
6
यस्मिन्नावारके तमसि सति वस्त्वभावः प्रतीयते तत्तमोभाव-प्रत्ययः तं विषयीकुर्वती वृत्तिर्निद्रा ।
7
प्रमादः कर्तव्यं कर्म कर्तुं शक्तावपि अकरणं तस्य, अजागरूकता "प्रमादोनवधानता" इति कोशात् ।
8
मूढत्वं यथावस्थितविषये अयथावत्प्रतिपत्तिः ।
9
आलस्य-जडत्व-निद्राप्रमाद-मूढत्वानि मूलानि येषां ते संशयादीनां ते तमोगुणाः तमः कार्याणि ।
10
एतैः धर्मैः प्रयुक्तः विशिष्टः किंचिदपि निहि वेत्ति जानाति ।
11
निद्रालुवत् यथा सुप्तो न किंचिदेत्ति तथा स्तंभदेव तिष्ठति श्रेयसे किंमपि न चेष्टत इत्यर्थः ।
12
प्राप्तज्ञायमानताकस्य अज्ञानं प्रमादः, प्राप्तकर्तव्यताकस्य अकरणमालस्यं इति वा भेदः ॥११८॥
13
एवं राजसानां तामसानां च धर्माणां अत्यन्तं श्रेयोविघातकत्वकथनेन सत्वं गुणं सम्यगाश्रित्य तयोरोरपि गुणयोः अत्यन्तं परित्यागः कार्यं इत्युक्तं भवति ।
14
अधर्मोपि जिज्ञास्यः परिहारायेति न्यायेनैव तेषामेवं विवरणम् ।
15
इदानीमुपादेयत्वाय सत्वकार्याणि वक्तुं सत्त्वस्वभावं वर्णयति । सत्त्वमिति ।
Śloka 117
All Ślokas
Śloka 119