विवेकचूडामणि
Śloka 119
Glossary
View Book
Verse
श्लोकः
Expand all
1
सत्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते ।
2
यत्रात्मबिंबः प्रतिबिंबितः सन् प्रकाशयत्यर्के इवाखिलं जडम् ॥११९॥
Śloka 118
All Ślokas
Śloka 120
Commentary
व्याख्या
Expand all
1
तथापीत्युत्तरत्र सत्वात् आदौ यत्पीति पाटितव्यम् ।
2
यद्यपि जलवत् यथा जलं स्वभावतो निर्मलं तथा सत्वगुणः विशुद्धं निर्मल एव ।
3
तथापि ताभ्यां रजस्तमोभ्यां मिलत्वा सरणाय संसाराय कल्पते प्रभवति ।
4
तस्य विशुद्धिं स्पटयति यत्रेति ।
5
आत्मबिंबः आत्मनो विंबः मुखादिवत् ।
6
यथा निर्मले जले साञ्चनेकशत आकाशः प्रतिफलितः स्पष्टं भासते यथा वा निर्मले दर्पणे मुखं तथा शुद्धे सत्वे प्रतिबिंबितसत्त्वात्मा
7
अर्कवत् सूर्यवत् निर्मलदर्पणे प्रतिबिंबितसूर्ये इव वा अखिलं जडं सर्वमात्मानं, प्रकाशयति ज्ञातस्वरूपं करोति ।
8
"सत्वात् संजायते ज्ञानं" इति स्मृतेः
9
"सर्वद्वारेषु देहेस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत" इति च ॥११९॥
10
राजस्तमसोः सत्वेपि ताभ्यामनिभ्भूयमानस्य सत्वस्य गुणानाह । मिश्रस्येति ।
Śloka 118
All Ślokas
Śloka 120