विवेकचूडामणि
Śloka 120
Glossary
View Book
Verse
श्लोकः
Expand all
1
मिश्रस्य सत्वस्य भवन्ति धर्मस्त्वमानितादा नियमा यमाद्याः ।
2
श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च संपत्तिरसंनिवृत्तिः ॥१२०॥
Śloka 119
All Ślokas
Śloka 121
Commentary
व्याख्या
Expand all
1
मिश्रस्य सर्वात्मना तमश्शून्यस्य ईषद्रजोमिश्रस्य सत्वस्य इत्यर्थः ।
2
ताभ्यां अभिभूयमानवक्ष्यमाण-गुणसत्वानुपपत्तेः ।
3
तुशब्दः इतरगुणद्वयस्य ताभ्यामभिभूयमानसत्वस्य च व्यावर्तकः ।
4
अमानिता आद्या येषां अदंभित्वादिकाः गीतायां "अमानित्व-मदंभित्व-महिंसा-क्षान्तिरार्जवं ।..." इति ।
5
तत्र अमानित्वं, विद्यमानैर्विद्यमानैर्वापि गुणैः आत्मनः श्लाघारूप-संमानं मानित्वं तदाह्रियमसमानित्वं ।
6
श्याताभूजार्थं स्वधर्मप्रकटनं दंभः तदभावतं अदंभित्वं ।
7
त्रिकरणया परपीडावर्जनं अहिंसा ।
8
परैरभिभूयमानस्यापि तान्त्रयविकृतित्वं चित्तस्य क्षान्तिः ।
9
मनोवाककायानां एकरूप्यमार्जवं ।
10
प्राणिपात-परिश्रवण-सेवादिभिः आचार्यानुवर्तनं आचार्योपासनम् ।
11
वाह्यमलानां मृज्जलाभ्यां अंतर्मलानां रागादीनां मैत्र्यादिभावसनया विषयदोषदर्शनाभ्यासेन च प्रक्षालनया बहिरन्तश्शुचित्वं ।
12
स्थैर्यं मुक्तिसाधन-प्रवृत्तस्य विघ्नसंभवेपि तत्परित्यागेन पुनःपुनर्थैलाधिक्यम् ।
13
आत्मविनिग्रहः आत्मनः देहेन्द्रियादेः मोक्षसाधनाप्रातिकूल्य-स्वभावनिरोधेन तदनुकूलतया व्यवस्थापनं ।
14
इन्द्रियार्थेषु शब्दस्पर्श-रूपादिषु दृष्टानुश्रविकेषु वैराग्यम् ।
15
अनहंकारः अहमेव सर्वोत्कृष्ट इति गर्वाहित्यं ।
16
जन्ममृत्युजरेति, गर्भवासायोनिद्वारा निःसरणं जन्म, मृत्युः सर्वमर्मच्छेदनरूपः, जरा वृद्धिव्लेतोजनाशसर्वपरिभ्वरूपा ।
17
व्याधयो ज्वरादयः, दुःखानि अनिष्टसंयोगेष्टवियोग-जान्त्याध्यात्मिकादीनि ।
18
दोषास्तु वातपित्तश्लेष्माणः तेषामवोपरच पुनःपुनरालोचनं ।
19
असक्तिः पुत्रादिषु प्रीतित्यागः ।
20
तेष्वनिभष्वङ्गः तेषां सुखे दुःखे अहमेव सुखी दुःखीध्यसासाभावः ।
21
इष्टानिष्टयोरुपस्थितिषु प्राप्तिषु । नित्यं सर्वदा समचित्तत्वं हर्षविषादशून्यत्वं ।
22
अनन्ययोगेन अपृथकसमाधिना अहमेव भगवान्वासुदेव इति निश्चयेन अत एव स्वात्मभूते मयि अव्यभिचारिणी एकान्तिकी भक्तिः ।
23
विविक्तः शुद्धः चित्तप्रसादको यो देशः तत्सेवित्वं जनानां वैषयिकाणां संसदि रत्यभावः ।
24
आत्मानमधिकृत्य प्रवृत्तं आत्मानात्मविवेकज्ञानं अध्यात्मज्ञानं तस्मिन्नित्यत्वं तत्रैव निष्ठा ।
25
पदार्थविवेकपरस्य वाक्यार्थज्ञानाधिगमात् प्रागेव प्रयोथः फलं मोक्षः तस्य दर्शनमालोचनम् ।
26
तत्वज्ञानफलालोचने हि तत्साधने प्रवृत्तिः स्यादिति भावः ।
27
अत यद्यपि यमघटकीभूतायाः अहिंसायाः नियमघटकस्य शौचस्य च घटनमस्ति तथापि उत्तरेण नियमायामाद्या इत्यत्र तदुभयातिरिक्तस्यैव ग्रहणं संभवतीति बोध्यम् ।
28
नियमाः "शौचसंतोष-तपस्स्वाध्यायेश्वर-प्रणिधानानि नियमाः" इति सूत्रानुसारेण शोचादयः जन्महेतुं काम्यकर्मेण संसारमोक्षहेतौ निष्कामे धर्मे नियमयन्ति प्रेरयन्तीति नियमा इत्युच्यन्ते ।
29
तत्र शौचं पूर्वं निरुक्तं ।
30
संतोषः यथालाभप्रतुष्टिः ।
31
तपः काण्डशोषणं तदुक्तं योगाग्नेवल्क्ये "विधिनोक्तेन मार्गेण कृच्छ्रच्चान्द्रायणादिभिः शरीरशोषणं प्राहुः तापसाः तप उत्तमं" ।
32
स्वाध्यायः प्रणवगायत्रीप्रभृतीनां मन्त्राणां जपः ।
33
ईश्वरप्रणिधानं अभिहितानां अनिभहितानां च सर्विसां क्रियाणां परमेश्वरे फलापेक्षतया समर्पणं
34
तदुक्तं "कामतोकामतोवापि यत्करोमि शुभाशुभं । तत्सर्वं त्वयि विन्यस्य स्वत्वयुक्तः करोम्यहं" इति ।
35
फलाभिसंधेः उपघातकत्वमभिहितं महर्षिभिः "अभिप्रयसंपत्रं कामेनोपहतं तपः न तुष्टये महेशस्य श्वलीढमिव पायसम्" इति ।
36
एतानि पंच नियमाः ।
37
यमाः "अहिंसासत्यास्तेयं ब्रह्मचर्यपरिग्रहाः" इति सूत्रानुसारेण अहिंसादयः पंच ।
38
तत्र अहिंसा विरूता ।
39
सत्यं सर्वदा अनुतानिभाषणम् ।
40
अस्तेयं परस्वानपहारः ।
41
ब्रह्मचर्यं अष्टविधमैथुनत्यागः ।
42
अपरिग्रहः शरीरस्थितिमात्र-हेतुभ्यतिरिक्त-भोगसाधनास्वीकारः ।
43
यमा आधां येषां आसन-प्राणायाम-आहारधारणाध्यान-समाधीनां तेपि समाध्यन्तानि योगाङ्गानि आदिपदेन गृह्यन्ते ।
44
श्रद्धा सर्वश्रेयोनिदानं आस्तिक्यबुद्धिः ।
45
भक्तिः सा परापरभेदेन द्विधा अपरैव साधनभक्तिरित्युच्यते "भक्त्या संजातया भक्त्या विभ्रत्युतुलकां तनुं" इति भागवतोक्तेः ।
46
"श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनं । अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥" इति नवविधा भक्तिः ।
47
परमप्रेमलक्षणायाः परभक्तेस्साधनं ।
48
मुमुक्षुता स्वस्वरूपसाक्षात्कारेण आविद्यकानां अहंकारादि-देहान्तानां बन्धानां निवृत्तिच्छा ।
49
दैवीसंपत्तिः सापि गीतासु षोडशाध्याये "अभयं सत्वसंशुद्धिः" इत्यादिना कथिता ।
50
तत्राभयं नाम इष्टानिष्ट-संयोग-वियोगहेतु-दर्शनजन्यं यद्दुःखमयं तदाहित्यं
51
यद्धा शास्त्रोपदिष्टार्थे सदेहं विनानुष्ठाननिष्ठत्वं ।
52
सत्वसंशुद्धिः सत्कर्तणस्य सम्यक्शुद्धिः निर्मलता सत्वसंशुद्धिः शुद्धेः सम्यक्तमं नाम भगवत्स्फूर्ति-योग्यत्वम् ।
53
शास्त्रा-चार्योपदेशांचाचा आत्मवात्लागतिः ज्ञानं ।
54
अवगतस्यार्थस्य चित्तैकाग्रत्वया स्वानुभवारूढत्वापादनं योगः ।
55
तयोर्विशेषेणावस्थितिः सदा तत्रिष्ठता ज्ञानयोगव्यवस्थितिः ।
56
यथाधिकारं स्वद्रव्यस्य पात्रे प्रतिपादनं दानं ।
57
वाह्येन्द्रिय-संयमो दमः ।
58
श्रौतः अग्निहोत्रचर्वपूर्णमासादिः, स्मार्तश्च देवयः पितृयज्ञः भूतयज्ञ इत्येवं चतुर्विधो यो यज्ञः
59
ब्राह्ययज्ञस्य स्वाध्यायपदेन पृथग्युक्तेः स्वाध्यायो ब्राह्ययज्ञः अदृष्टार्थमुवेदाद्यध्ययनरूपः ।
60
तपः शारीरादिभेदेन त्रिविधं "देविद्वजगुरुप्राज्ञपूजनं शौचमार्जवं ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्याभ्यासनं चैव वाङ्मयं तप उच्यते । मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः भावसंशुद्धिरित्येतत् तपो मानसमुच्यते" इति ।
61
अवक्रतमार्जवं मनोवाककायवृत्तीनां-मैकरूप्यमिति यावत् ।
62
परपीडावर्जनमहिंसा ।
63
यथादृष्टवचनं सत्यं परैराकोशे टाडने वाकृते सति सद्यःप्राप्तस्य कोधस्य तत्कालमुपशमनं अक्रोधः ।
64
दानस्य प्रागुक्तेः त्यागो दुःखसंपरित्यागः, शान्तिरन्तरिन्द्रियोपरतिः
65
परदोषप्रकाशनं पैशुनं तदभावोपशुनम् ।
66
दुःखितेषु भूतेषु तदीयदुःखा-सहिष्णुत्वं दया ।
67
अलोलुत्वं अलोलुप्त्वमिति इन्द्रियाणां विषयसिद्धानेप-विक्षित्वं इति यावत् ।
68
मृदुत्वं मार्दवं साधुजनसंश्लेषार्हत्वेत्यर्थः ।
69
अकार्यकरणे लज्जा ह्रीः ।
70
वृथाचेष्टाहरित्वं अचापलं ।
71
प्रागल्म्यं तेजः स्त्रीबालकादिमूढजनैः अनिभवनीयत्वमित्यर्थः ।
72
सत्यपि सामर्थ्ये परिभवहेतुं प्रति क्षोभानुत्पत्तिः क्षमा ।
73
उत्पन्नस्य क्रोधस्य सद्यश्शमनमक्रोध इति ततो भेदः ।
74
दुःखादिभिः सीदतः चित्तस्य स्थिरीकरणं धृतिः ।
75
बाह्यान्तरशुद्धिः शौचं ।
76
परिजंघसया शस्त्राद्यग्रहणं अद्रोहः ।
77
आत्मनि पूज्यत्वातिशयभावना अतिमानिता तदभावो नातिमानिता ।
78
तया च तत्कार्यं पूज्येषन् ब्रह्मत्वमुपलक्ष्यते ।
79
त एले पिण्डेश्वरतिरभयादयो धर्माः देवयोः सात्विक-शुभवासना-रूपसंपत्तिशरीरारंभकाले पुण्यकर्मभिः अभिव्यक्तामिभलक्ष्य जातस्य पुरुषस्य भवन्ति निश्चचते ।
80
"तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च" "पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति" श्रुतेरिति भावः ।
81
असंनिवृत्तिः असतः ब्रह्मव्यतिरिक्तात् निवृत्तिः यद्धा "नाविरतो दुश्चरितात्" इतिश्रुतेः अव्रजिनत्वमर्थः ॥१२०॥
Śloka 119
All Ślokas
Śloka 121