विवेकचूडामणि
Śloka 121
Glossary
View Book
Verse
श्लोकः
Expand all
1
विशुद्धसत्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः ।
2
तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति ॥१२१॥
Śloka 120
All Ślokas
Śloka 122
Commentary
व्याख्या
Expand all
1
विशुद्धत्वं च रजस्तमोशचलत्वं ।
2
केवलसत्वस्य गुणाः कार्यभूतधर्माः, प्रसादः मनोनैर्मल्यं ।
3
आवरकस्य तमसः विक्षेपकस्य रजसश्च अभावात् अप्रतिबन्धं स्वात्मानुभूतिः ।
4
यदातमसाभिव्राज्यते आत्मत्वं तदा तस्य स्पष्टभानात् अन्यमादीनां भानं ।
5
केवलसत्वे तु स्वस्वरूपं निष्फल्यूहं अनुभूत इति भावः ।
6
अत एव परमा निरतिशया प्रकृष्टा शान्तिः ।
7
वक्ष्यते चौत्रत्र "कस्तां निरन्दरसानुभूतिमुत्सृज्य शून्येषु रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत्" इति ।
8
पूर्वं साधकदशायां प्रयत्नेन संपाद्यमाना शान्तिः आत्मदर्शने स्वभावभूता भवतीति भावः ।
9
अत एव फलप्रपञ्च-संचारा-भावात् मनसः तृप्तिः अलब्धिः निराकुशा ।
10
प्रहर्षः सार्धनानधीनः स्वयं सर्वदा स्फुरानन्दः ।
11
यद्धा कृतं कृत्यं प्रापणीयं प्राप्तं इत्येवेत्वं स्वात्मानं धन्यं मत्वा हृष्यतीति प्रकृष्टो हर्षः ।
12
यया सदानन्दरसं समृच्छति सम्यगव्नुते सा परमात्मनिष्ठा परमात्मन्यैव नितरां स्थितिः ।
13
स्वरूपानन्दविलोकनेन मनो व्यत्थातुमशक्तं लीनं निर्विकल्पक-समाधिमनुभवतीति भावः ॥१२१॥
14
इदानीं गुणत्रयमयस्य मायाविद्यादिशब्दैरभिहितस्य अव्यक्तस्य कार्यानुमेयस्य स्थूलसूक्ष्मादिसकलकार्यहेतुत्वात् ज्ञाननाश्यत्वाच्च शीयते इति व्युत्पत्या अव्यक्तानशरीरत्वं वदन् अव्यक्तनाज्ञानीत्यादिना उपक्रान्तां मायामुपसंहरति अव्यक्तमेतदिति ।
Śloka 120
All Ślokas
Śloka 122