विवेकचूडामणि
Śloka 122
121
All
123
Glossary
विवेकचूडामणि
Śloka 122
100%
Commentary — व्याख्या
1
अव्यक्तं स्वस्वरूपतः साक्षादस्पष्टम् ।
2
एतित्त्रिगुणैः त्रयश्च ते गुणाश्च त्रिगुणाः एते च ते त्रिगुणाश्च एतित्त्रिगुणाः, कामक्रोधाज्ञानलस्या-मानित्वादिभिर्धर्मैर्नुमेयः रजस्तमस्सत्वगुणैः निरुक्तं त्रिगुणात्मिका कार्यानुमेया इति पूर्वं कथितं कृतनिर्वचनमित्यर्थः ।
3
तत् अव्यक्तं अविद्यादि शब्दवाच्यं आत्मनः कारणं नाम शरीरं । शास्त्रे कारणशरीरमिति प्रसिद्धमर्थः ।
4
अस्यासाधारणीमवस्थामाह सुषुप्तिरिति । एतस्य कारणशरीरस्य अव्यक्तस्य ।
5
प्रलीनसर्वेन्द्रियबुद्धिवृत्तिरिति सुषुप्ते-विशेषणम् ।
6
सर्वाणि चतानीन्द्रियाणि च सर्वेन्द्रियाणि तानि च बुद्धिश्च सर्वेन्द्रियबुद्धयः तासां वृत्तयः सर्वेन्द्रियबुद्धिवृत्तयः प्रलीना यस्यां सुषुप्तौ सा प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ।
7
एतेन सर्वेन्द्रियवृत्तिमत्या जाग्रदवस्थायाः अव्यक्तवस्था विभजकावस्था ।
8
अज्ञानस्य अवस्थात्रये सत्वेपि इतरावस्थयोः श्वेत-रसाधारणत्वात् स्वमात्रस्य सुषुप्तिरसाधारण्यपवस्थेति भावः ॥१२२॥
9
अन्तिमपदार्थं अनुभवेन स्पष्टयति । सर्वेति ।
121
All
123
En