विवेकचूडामणि
Śloka 123
Glossary
View Book
Verse
श्लोकः
Expand all
1
सर्वप्रकार-प्रमिति-प्रशान्ति-वीजात्मनावस्थितिरेव बुद्धेः ।
2
सुषुप्तिरास्य किल प्रतीतिः किंचन वेदमीति जगत्प्रसिद्धेः ॥१२३॥
Śloka 122
All Ślokas
Śloka 124
Commentary
व्याख्या
Expand all
1
सर्वे प्रकाराः प्रत्यक्षत्वानुमितित्वादयः यासां प्रमितीनां तासां प्रकर्षेण शान्तिः प्रशान्तिः उपरमः यत्र सुषुप्तौ सा सर्वप्रकार-प्रमिति-प्रशान्तिः इति पाठः ।
2
तत्र व्यवहारः कथिमिति चेत् तत्राह बुद्धेरन्तेति ।
3
बुद्धेरन्तःकरणस्य बीजात्मना संस्कारात्मना कारणज्ञानात्मनेत्यर्थः ।
4
अवस्थितिरेव न स्वकार्यवृत्त्यात्मनावस्थितिः तदेत्यवकारेण प्रतीयते ।
5
सैव सुषुप्तिः तदा सर्वप्रकारज्ञानाभावे सर्वानुभवं प्रमाणयति अत्र सुषुप्तिविषये ।
6
इदं किल प्रसिद्धमित्यर्थः ।
7
यदि बुद्धिकार्यभूता वृत्तिः स्यात् तदा किंचन वेदमीति प्रतीतिर्नस्यात् जाग्रत्स्वप्नयोरन्तरालप्रतीतेरभावादित भावः ।
8
अनुभवे विवदमानं प्रत्यह जगत्सिद्धिरिति । तथाच सर्वप्रसिद्धत्तीति विवादोसंगत इत्यभिप्रायः ॥१२३॥
9
इदानीं आत्मानात्मविवेचनार्थं प्रतिपादादिविषयं अनात्मानमुपसंहरति । देहेति ।
Śloka 122
All Ślokas
Śloka 124