विवेकचूडामणि
Śloka 124
123
All
125
Glossary
विवेकचूडामणि
Śloka 124
100%
Commentary — व्याख्या
1
देहश्च इन्द्रियाणि च प्राणश्च मनश्च अहं च देहेन्द्रिय-प्राणमनोहमः आदयः येषां बुद्ध्यादीनां विकाराणां ते सर्वे विकाराः भौतिकाः पदार्थाः ।
2
विषयाः शब्दस्पर्श-रूपरसगन्धाः ।
3
सुखादयः सुखं आदिर्येषां दुःखमोह-संकल्पादिवृत्तीनां भयातानानां ते सुखादयः ।
4
व्योमं आकाशं आदिर्येषां तानि पृथिव्यन्तानि-भूतानि ।
5
किं बहुना इदं परिदृश्यमानं अव्यक्तपर्यन्तं अखिलं समस्तं, विश्वं जगत्, अनात्मा ।
6
एतेन कोसावनात्मेत्यस्य उत्तरं दत्तम् ॥१२४॥
7
अन्तिमकार्येभ्रुति आदिमपरिणाम्युपादान-पर्यन्तं सर्वं अनात्मेत्युक्तम् । तद्यैपरीत्येन आदिम-परिणाम्युपादानात् अन्तिमकार्य-पर्यन्तं सर्वं तथैति दाढर्यार्थं वदन् तस्य मिथ्यात्वमपि कथयति । मायेति ।
123
All
125
En