विवेकचूडामणि
Śloka 125
Glossary
View Book
Verse
श्लोकः
Expand all
1
माया मायाकार्यं सर्वं महदादि देहपर्यन्तं ।
2
असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥१२५॥
Śloka 124
All Ślokas
Śloka 126
Commentary
व्याख्या
Expand all
1
माया मूलप्रकृतिः ।
2
महत् महत्त्वं "तदैक्षतेति" श्रुतिसिद्धं ईक्षणं तदादि यस्य देहपर्यन्तस्य मायाकार्यस्य तन्महदादि ।
3
अहंकारः ईश्वर-संकल्पः "सोऽकामयतेति" श्रुतिसिद्धः ।
4
ततः पंच सूक्ष्मभूतानि, ततः पंचीकृतानि स्थूलभूतानि, ततः ब्रह्माण्डं, तत्र चतुर्दशभुवनानि तदन्तर्वर्ति-स्थूलदेहादयः ।
5
एतत्सर्वं देहपर्यन्तं मायाकार्यं त्वं इदं मायां मायाकार्यं च अनात्मत्वं च आत्मव्यतिरिक्तपदार्थं कौसावनात्मेति प्रश्नोत्तरविषयं असत् सद्रूपात्मभिन्नं ।
6
अत एव पूर्वोक्त-शुद्धाध्य-ब्रह्मविबोध-नाश्यत्वादि-हेतुना मरुमरीचिकाकल्पं मृगतृष्णिकासदृशं दृष्टनष्टस्वरूपत्वेन मिथ्याभूतं विद्धि जानीहि ।
7
वर्मकाले मरुभूमौ मिहिरमरीचयः पतिताः महावारिप्रवाह-बुद्धिं जनयन्ति । वस्तुतस्तु विशेषदर्शने तत्र जलं किंचिदपि नास्ति ।
8
तथा ब्रह्मज्ञानाभावात् माया तत्काये च भासते । तत्साक्षात्कारे च प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यतीति दृष्टनष्टस्वरूपत्वं तेषां, ततो मरुमरीचिकावन्मिथ्यात्वं ।
9
मरुः मरीचिका: मरुमरीचिका: । उक्तार्थ-मिदं पदम् ॥१२५॥
Śloka 124
All Ślokas
Śloka 126