विवेकचूडामणि
Śloka 126
125
All
127
Glossary
विवेकचूडामणि
Śloka 126
100%
Commentary — व्याख्या
1
एवमनात्मानं निरवशेषमुक्त्वा परमः क आत्मा इति प्रश्नस्य उत्तरंवक्तुमारभते । अथेति ।
2
अथशब्दः अनात्मतिपादनानन्तर्यार्थकः ।
3
यत्परमात्मस्वरूपं विज्ञाय साक्षात्कृत्य, नरः विद्याधिकारी पुरुषः, बन्धात् अहंकारादिदेहान्ताद् वन्धात् मुक्तः त्यक्ततादात्म्याध्यासः
4
कैवल्यं सर्वोपाधिसंबंध-विनिर्मुक्तत्वेन केवलद्वरूपत्वं निर्भेदसच्चिदानन्दरूपत्वं च अश्नुते प्राप्नोति ।
5
तत् परमात्मनः स्वरूपं यथातथ्यं ते तव संप्रवक्ष्यामि सम्यक् स्पष्टं प्रकर्षेण विस्तरेण वक्ष्यामि कथयिष्यामीत्यर्थः ॥१२६॥
6
आत्मानं वक्तुं प्रक्रमते । अस्तीति ।
125
All
127
En