विवेकचूडामणि
Śloka 127
126
All
128
Glossary
विवेकचूडामणि
Śloka 127
100%
Commentary — व्याख्या
1
स्वयं, सत्तास्फूर्तिविषये परानपेक्षः, अहंप्रत्यय-लंबनः अहमाकार-वृत्तिमनसत्दात्म्यापाश्रयतया अहंवृत्त्याश्रयः ।
2
अहंप्रत्ययः अहंवृत्तिः लंबनं विबग्राहिणी यस्य सः अहंप्रत्यय-लंबनः अहंवृत्तिविषय इत्यर्थः ।
3
अवस्थात्रयसाक्षी सन् जाग्रत्स्वप्न-सुषुप्त्यवस्थात्रय-साक्षात्-द्रष्टा सन् ।
4
पंचकोशविलक्षणः अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमय-व्यतिरिक्तः ।
5
स नित्यं सर्वदा कश्चिदस्ति स एव आत्मेति शेषः ।
6
अत्र कालत्रयावाध्यत्वरूप-सद्रूपत्वमुक्तम् ॥१२७॥
7
अवस्थात्रय-साक्षित्वमुपपादयति । य इत्यादिना ।
126
All
128
En