विवेकचूडामणि
Śloka 128
127
All
129
Glossary
विवेकचूडामणि
Śloka 128
100%
Commentary — व्याख्या
1
इदमिदं पश्यामि अनुमिनोमि शब्दात् प्रत्येमि स्मरामीत्यादि-प्रकारेण जाग्रत्स्वप्नयोः बुद्धितद्वृत्तिसद्भावं ।
2
नकिंचदवेदिषमिति सुषुप्त्यनन्तरकालिक-स्मृत्यनुसारेण सुषुप्तौ बुद्धितद्वृत्त्यभावं च यो विजानाति
3
सकलं जाग्रद्भावान् स्वान्पदार्थान् सुषुप्त्यवाञ्ज्ञानां च अहमहं इदं जानामि अज्ञासिषं ज्ञास्यामीत्यनुभवात् ।
4
अयमात्मा इत्यन्वयः ॥१२८॥
5
इतराबेद्यत्वेन सर्वद्रष्टृत्वेन च ज्ञानस्वरूपत्वमाह । यः पश्यती-त्यादिना ।
127
All
129
En