विवेकचूडामणि
Śloka 129
Glossary
View Book
Verse
श्लोकः
Expand all
1
यः पश्यति स्वयं सर्वं यं न पश्यति किंचन ।
2
यश्चेतयति बुध्यादि न तद्यं चेतयत्ययम् ॥१२९॥
Śloka 128
All Ślokas
Śloka 130
Commentary
व्याख्या
Expand all
1
यः पश्यति स्वयं सर्वं "नान्योऽतोऽस्ति द्रष्टा" इति श्रुतेः ।
2
यं न पश्यति किंचन "न तत्र चक्षुर्गच्छति न तद्वाग्गच्छति नो मनः" "न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः" "नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा" इत्यादिश्रुतिभ्यः ।
3
यः बुध्यादि जडं चेतयति स्वप्रतिफलनेन चेतनवत्करोति ।
4
तत् बुध्यादि यं न चेतयति स्वतः चेतनत्वात् ।
5
जडं हि स्वकार्यार्थं चेतनमपेक्षते न चेतनस्य पराकांक्षा ।
6
अयमात्मा इत्यन्वयः ॥१२९॥
Śloka 128
All Ślokas
Śloka 130