विवेकचूडामणि
Śloka 130
129
All
131
Glossary
विवेकचूडामणि
Śloka 130
100%
Commentary — व्याख्या
1
सर्वोपादानतया येन सर्वान्तरेण इदं विश्वं जगत् व्याप्तं विशेषणाप्त-संवद्धं ।
2
किंचन कमपि वस्तु यमात्मानं न व्याप्नोति अस्य सर्वस्य बाह्यत्वात्
3
"विष्ट्याहमिदं कृत्स्नं एकांशेन स्थितो जगत्" "विकारावित च तथाहि स्थितिमाह" "पादोस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इति स्मृतिसूत्रश्रुतिभ्यः,
4
"ज्यायान्पृथिव्याः ज्यायान्तरिक्षात् ज्यायानेभ्यो लोकेभ्यः" इत्यादिश्रुतेश्च ।
5
अभारूपं अप्रकाशरूपं जडमित्यर्थः । इदं सर्वं विचूर्पं यं भान्तं अनुभाति "तमेव भान्तमनुभाति सर्वं" इति श्रुतेः ।
6
अयमात्मा इत्यन्वयः ।
7
अत्र सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुत्युक्तं आनन्त्यं देशपरिच्छेदशून्यत्वकथनेन कथितं बोध्यम् ॥१३०॥
129
All
131
En