विवेकचूडामणि
Śloka 14
Glossary
View Book
Verse
श्लोकः
Expand all
1
अधिकारिणमाशास्ते फलसिद्धिविशेषतः ।
2
उपायाः देशकालाद्याः सन्त्यस्यां सहकारिणः ॥१४॥
Śloka 13
All Ślokas
Śloka 15
Commentary
व्याख्या
Expand all
1
तत्तत्कर्मणि समर्थस्यैव तत्तत्कर्मफलभोक्तृत्व-सम्भवात् असमर्थस्य तदयोगात् बाह्यदेशकालादेः सहकारित्वमात्रं, आन्तरसामर्थ्यस्यैव फलदायकत्वमित्याह । अधिकारिणमिति ।
2
कर्मणां तावत् दृष्टार्थत्वात् "यदाह्वनीये जुहोति" "अश्वस्य पदे जुहोति" "प्राचीनप्रवणे वैश्वदेवेन यजेत" "सायं जुहोति" "प्रातर्जुहोति" "वसन्ते बसन्ते ज्योतिषा यजेत" "वसन्ते ब्राह्मणो-ग्नीनादधीत" इत्यादिशास्त्रानुसारेण देशकालयोरप्यसाधारण-कारणत्व-मंगीकर्तव्यम् ।
3
यद्यपि ज्ञानस्यापि "यथाऽऽदर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव दृश्ये तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ।" "इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीत् महती विनष्टिः" इत्यादिश्रुत्यनुसारेण मनुष्यलोक-ब्रह्मलोकयोरेव ज्ञानभूमित्वं प्रतीयते,
4
एवं "ऋणत्रयमपाकृत्य मनो मोक्षे निवेशयेत् । अनापाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥" "ब्रह्मचर्यं समाप्य गृही भवेत्, गृहाद्वनी भूत्वा प्रव्रजेत्" इत्यादिप्रमाणानुसारेण ब्रह्मज्ञानान्तरंगभूत-संन्यासस्यापि काले विधीयत इव प्रतिभाति ।
5
अथापि अशुद्धचित्तो राक्षसराजो विरोचनः ब्रह्मलोके गतोपि परमगुरुणा प्रमेष्ठिना उपदिष्टोपि नैवाग्रही-दात्मानम् ।
6
"संसारमेव निस्सारं दृष्ट्वा सारिदृक्षया । प्रव्रजन्त्यकृतोद्दाहाः परं वैराग्यमाश्रिताः ।" इति "यदिवैतेरथा ब्रह्मचारिव प्रव्रजेत्गृहाद्वा वराढा यदहरेव विरजेत्तदहरेव प्रव्रजेत्" इत्यादिप्रमाणैः वक्ष्यमाण-वैराग्यादिसाधन-चतुष्टयसंपन्नस्य देशकालौ न विबक्षितौ इत्यभिप्रायेण तयोःसहकारित्वमुक्तम् ।
7
तत्र एव "विद्वान् संन्यस्तवाह्यार्थंसुख-स्पृहसत्" इति विवेक-वैराग्ये ब्रह्मात्मनावस्थान-लक्षण-मोक्षसाक्षा-द्धेतु-भूतसम्यग्दर्शननिष्ठार्थं मोक्षसाधनोपदेशक-गुरूपसदन-गुरुस्सर-तदुप-दिष्टार्थमनःसमाधाने हेतुकृते ।
8
एतादृशमनःसमाधानस्य शमदमोपरति-तितिक्षा-श्रद्धानाभावे असंभवात् मुक्तीच्छाभावे तदर्थ प्रयत्नासंभवाच्च "अतो विमुक्त्यै" इत्याद्यश्लोके विवेक-वैराग्य-शमादिपट्टक-मुमुक्षुत्वानां जिज्ञासा-साधारण-हेतूनां सूचनं कृतमेव ।
9
तथाच "तरित शोकात्मवित्" ॥१४॥
Śloka 13
All Ślokas
Śloka 15