विवेकचूडामणि
Śloka 15
Glossary
View Book
Verse
श्लोकः
Expand all
1
अतो विचारः कर्तव्यः जिज्ञासोरात्मवस्तुनः ।
2
समासाद्य दयासिंधुं गुरुं ब्रह्मविदुत्तमम् ॥१५॥
Śloka 14
All Ślokas
Śloka 16
Commentary
व्याख्या
Expand all
1
अतः सर्वार्थनिनवर्तकनिर्णयहेतुत्वात् जिज्ञासोः आत्मानं सम्यगालुमिच्छोः पुरुषस्य आत्मवस्तुनः विचारः कर्तव्यः ।
2
तत्र इतिकर्तव्यतामाह दयासिंधुम् इत्यादि ।
3
ब्रह्मविद् स्वयं कृतार्थतले स्वयं प्रयोजनाभावसिद्ध एव, इतरेपि मा दुःखमनुभूविति करुणायाः समुद्रः, आधारमित्यर्थः; जलराशिरिव जलानां, गुरुम्,
4
"गुरुश्शद्वर्धकारस्स्यात् श्रुशब्दस्तिनिरोधकः । अन्धकारनिरोधित्वात् गुह्यरित्यभिधीयते" इति गुरुशब्दोक्तरीत्या स्वोपदेशेन अज्ञानाध्यहादान्धकारहारकमित्यर्थः ।
5
यथान्धकारः प्रपञ्चमावृत्य तज्ज्ञानप्रतिबन्धको भवति एवमात्मानमावृत्य तत्स्पष्टभान-प्रतिबन्धकं भवतीत्यन्धकारत्वमज्ञानस्य, अत एव तमइत्यादिशब्दैरभिलाप-श्रुती "तमोऽहासीत् तमसा गूढमग्रे" इत्यादौ ।
6
एतद्विशेषणद्वयं यत्र सम्भवति तमाह ब्रह्मविदुत्तमम् इति । ब्रह्म विदन्तीति ब्रह्मविदः तेषामुत्तमं स्थित-प्रज्ञमित्यर्थः ।
7
अत्र श्रूयेत् पूर्वमुद्दाहृताः । तत्समासादनं च "तमाराध्य गुरुं भक्त्या" इत्यादिप्रमाणेन "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया" इति गीतोक्तरीत्या च तस्य स्वात्माभिमुखीकरणमिति ।
8
अतो विमुक्त्यै इत्यष्टमश्लोकस्य इयद्भिश्लोकैः विवृतिः कृता ॥१५॥
Śloka 14
All Ślokas
Śloka 16