विवेकचूडामणि
Śloka 141
Glossary
View Book
Verse
श्लोकः
Expand all
1
अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् ।
2
समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवाकिंबम् ॥१४१॥
Śloka 140
All Ślokas
Śloka 142
Commentary
व्याख्या
Expand all
1
अज्ञानस्य द्वे शक्ती बन्धहेतुभूते आवरणशक्तिः विक्षेपशक्तिश्चेति ।
2
क्रमेण तयोः बन्धहेतुत्वमुपापादयति ।
3
अखण्डा अपरिच्छिन्ना अत एव नित्या उत्पत्तिनाशशून्या ।
4
अद्वया द्वितीयशून्या या बोधरूपा शक्तिः
5
"स्वाभाविकी ज्ञानबलक्रिया च" इति श्रुतेः
6
"अयमात्मा ब्रह्म सर्वानुभूः" "सत्यं ज्ञानमनन्तं" "विज्ञानमानन्दं ब्रह्म" "कुत्स्नः प्रज्ञानघन एव" इतिश्रुतिभिः यदुच्यते
7
तया शक्त्या स्फुरन्तं प्रकाशमानम्
8
अनन्तवैभवं विभोर्भावः वैभवं, तस्य गणनादिवदपेक्षाकत्वं वारयति अनन्तेति ।
9
अनन्त निरपेक्षं वैभवं यस्य इति निरतिशयमहत्वमुक्तम्
10
अतिपरिच्छिन्ने देहादौ अहमंसः अत्यन्तमयुक्तेति बोधयितुम् ।
11
एतादृशे परिच्छिन्नत्व-नित्यत्व-सद्रयत्व-जडत्वादिक-मारोप्यते अज्ञानात् ।
12
तत्र हेतुः स्फुटयति, तमनन्तवैभवं अखण्डनित्याद्वयबोधशक्त्या प्रकाशमानात्मानं तमोमयी तमश्चुरा एषा विवेकिकजनप्रत्यक्षा आवृतिशक्तिः ।
13
अर्कीबवं महाप्रकाशमानं सूर्यमण्डलं तमोमयो राहुरिव समावृणोति अभासमान-स्वासाधारण-धर्मिणं करोति ।
14
यथा महाप्रकाशवानपर्कः राहणावृतः न भासत इत्युच्यते, तथा तत्तादृशोऽप्यात्मा आवृतिशक्त्या समावृतः अज्ञातवास्तवस्वरूपो भवतीति भावः ॥१४१॥
Śloka 140
All Ślokas
Śloka 142