विवेकचूडामणि
Śloka 142
Glossary
View Book
Verse
श्लोकः
Expand all
1
तिरोभूते स्वात्मन्यमल-तरतेजोवित पुमान् अनात्मानं मोहादहमिति शरीरं कलयित ।
2
ततः काम-क्रोध-प्रभृतिभिर-रमुं बन्धगुणोः परं विक्षेपाख्या रजस उरुशक्त्यर्थयति ॥१४२॥
Śloka 141
All Ślokas
Śloka 143
Commentary
व्याख्या
Expand all
1
अमलतरतेजोवित अतिस्वच्छप्रकाशवित स्वात्मनि स्वस्वरूपे परमात्मनि अज्ञानगतावरणशक्त्या तिरोभूते न्यग्भूते स्पष्टमभासमाने सति,
2
अविवेकात् मोहात् अनात्मिभ्रमं शरीरं देहं अनात्मानं आत्मिभ्रमं अहमिति तादात्म्येन कलयित जानाति अभिमन्यते ।
3
ततः शरीरे तादात्म्याभिमाननन्तरं अमुं पुरुषं विक्षेपाख्या विक्षेपनामनी रजसः रजोगुणस्य उरुशक्तिः प्रवला शक्तिः
4
काम-क्रोधप्रभृतिभिः कामश्च क्रोधश्च कामक्रोधी तौ प्रभृती आदी येषां लोभदम्भाभ्यसूयाहंकारर्ष्यांमत्सराद्यानां ते काम-क्रोध-प्रभृतयः
5
अध्यासबृद्धिहेतुभूतैः धर्मैः परमत्येन्तां व्यथयति शोचयति । दुःखजटिलं करीतीत्यर्थः ।
6
प्रसिद्धं हि शरीराभिमानवतः तदनुकूले वस्तुनि कामः तदलाभे क्रोधः तल्लाभे लोभः इत्यादि ।
7
उक्तं हि गीतायां "त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः काम-क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्" इति ॥१४२॥
Śloka 141
All Ślokas
Śloka 143