विवेकचूडामणि
Śloka 143
142
All
144
Glossary
विवेकचूडामणि
Śloka 143
100%
Commentary — व्याख्या
1
महामोह-ग्राहग्रसन-गलितात्मावगमनः महाश्चासी मोहरुच महामोहः दुर्दुरत्राविवेकः स एव ग्राहः मकरः तस्य ग्रसनं तत्कण्टुक-निगरणेन तेन गलितं नष्टं आत्मावगमनं आत्मनः अवगमनं सम्यग्ज्ञानं यस्य सः
2
अनवबुध्यमानयथाऽत्मस्य इत्यर्थः ।
3
धियः बुद्धेः नानावस्थाः बहुविधान् परिणामान्, तद्गुणतया तस्याः गुणाः यस्य सः तद्गुणः तदुपहितत्तया तदधीनतयेति यावत् उपाधेः प्रतिबिम्बपक्षपातित्वात् ।
4
प्रसिद्धं हि जले चलिति तत्र भासमान-सूर्यप्रतिबिम्बोऽपि चलतीति ।
5
"समानस्सनु उभौ लोकी अनुसंचरति, सघीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव" इति श्रुतेः ।
6
स्वयमभिनयन् स्वमिसारोपयन् ।
7
अपारे अनवधी विषयविषपूरे विषया एव विषं विषयविषं तस्य पूरः प्रवाहः यत्र सः विषयविषपूरः तस्मिन् संसारे जलनिधौ संसारोपसमुद्रे
8
सप्तमी समानाधिकरणत्वाधिका ।
9
कुमतिः कुत्सिता अब्रह्मगामिनी मतिः बुद्धिः यस्य सः कुमतिः अत एव कुत्सितगतिः कुत्सिता निंदिता गतिः तिरगवगतिः नरकाध्ढ़ोलोकगतिर्वापि यस्य स कुत्सितगतिः
10
अयं पुमान् निमज्ज्योत्मज्यायं अघो गत्वा ऊर्ध्वं-मागत्य भ्रमति ।
11
अवशीकृतबुद्धेः इन्द्रियलौल्येन विषयाधीनतया भ्रान्ति-परंपरा न संसारपार-ब्रह्म-प्राप्तिरिति भावः ॥१४३॥
142
All
144
En