विवेकचूडामणि
Śloka 149
Glossary
View Book
Verse
श्लोकः
Expand all
1
नास्त्रैनं शस्त्रैरनिलेन विह्ना छेतुं न शक्यो नच कर्मकोटिभिः ।
2
विवेकविज्ञान-महासिना विना धातुः प्रसादेन शितेन मञ्जुना ॥ १४९॥
Śloka 148
All Ślokas
Śloka 150
Commentary
व्याख्या
Expand all
1
अयं बन्धः धातुः प्रसादेन परमेश्वरानुग्रहेण शितेन निशितेन तीक्ष्णेन बूढेनेति यावत्
2
"यमेवैष वृणुते तेन लभ्य" इति श्रुतेः ।
3
मञ्जुना रमणीयेन, विवेकविज्ञानमहासिना विवेकात् आत्मानात्मविवेचनात् जातं यद्विज्ञानं ब्रह्मसाक्षात्कारः स एव महाँस्तासो असिश्च खड्गः तेन विना ।
4
अस्त्रैः आग्नेयादिभिः न छेत्तुं नाशयितुं शक्यः
5
शस्त्रैः लोहमयैः वाणादिभिः न छेत्तुं नाशयितुं शक्यः ।
6
एवं अनिलेन वायुना न छेत्तुं नाशयितुं शक्यः ।
7
विह्ना अग्निना न दग्धुं शक्यः ।
8
न च कर्मकोटिभिः वेदोक्तरैरपि कर्मणां कोटयः तैरपि न नाशयितुं शक्यः ।
9
अज्ञानमूलकत्वात् ज्ञानैकनिवर्त्ये इति भावः ।
10
तथाच अस्य बंधस्य विमोक्षः ईश्वरप्रसादजित-परमात्माभेद-साक्षात्काराद्ित्युक्तम् कथं विमोक्ष इत्यस्य प्रश्नस्य उत्तरम् ॥ १४९॥
Śloka 148
All Ślokas
Śloka 150