विवेकचूडामणि
Śloka 16
Glossary
View Book
Verse
श्लोकः
Expand all
1
मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः ।
2
अधिकार्यात्मविद्यायां उक्तलक्षणलक्षितः ॥१६॥
Śloka 15
All Ślokas
Śloka 17
Commentary
व्याख्या
Expand all
1
अधिकारिणमाशास्ते फलसिद्धिविशेषत इत्युक्तमधिकारिणं प्रकृते कथयति मेधावीत्यादिना ।
2
"धीधारणावती मेधा" इति कोशात् श्रुतार्थधारणक्षमबुद्धिमान्उच्यते मेधास्यास्तीति व्युत्पत्त्या मेधावीशब्देन ।
3
ऊहापोहविचक्षणः: एतेन तर्क-मीमांसा-संस्कृतबुद्धित्वं गम्यते । पदवाक्यप्रमाणं इति यावत् ।
4
उक्तलक्षण-लक्षित इति अष्टमश्लोकादारभ्य पञ्चदशश्लोकमध्यपाति-श्लोकैः समासव्यासाभ्यां सूचितविवेक-वैराग्य-शमादिषट्क-मुमुक्षुत्वरूप-साधन-चतुष्टय-संपन्न इत्यर्थः ।
5
आत्मविद्यायामधिकारी आत्मविद्याफलं मोक्षम् अनुभवितुमर्हतीत्यर्थः ॥१६॥
Śloka 15
All Ślokas
Śloka 17