विवेकचूडामणि
Śloka 155
Glossary
View Book
Verse
श्लोकः
Expand all
1
मुञ्जादिषीकामिव दृश्यवर्गात्
2
प्रत्यञ्चमात्मान-मसंगमक्रियम् ।
3
विविच्य तत्र प्रविलाप्य सर्वं
4
तदात्मना तिष्ठति यस्स मुक्तः ॥१५५॥
Śloka 154
All Ślokas
Śloka 156
Commentary
व्याख्या
Expand all
1
मुञ्जात् — मुञ्जं तृणविशेषः तस्मात्
2
इषीकामिव — तन्मध्यवर्ती-मृणाल-तन्तुनिभ-सूक्ष्माशः इषीका तामिव
3
सा सूक्ष्मा परितस्तृणावृता तस्याः पृथक्करणे अत्यन्तैकाग्रचेष्टादिना विना संपूर्णेषीकाग्रहणे यत्नविशेषश्च अपेक्ष्यते
4
तद्वत् "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः" इतिश्रुत्या
5
विहितकर्मिभिः उपासनया च संस्कृत्या बुद्ध्या
6
दृश्यवर्गात् अनात्मसमूहात्
7
प्रत्यञ्चं — प्रातिलोम्येन अञ्चतीति प्रत्यक् — असञ्जद-दुःखाहंकारादिवलक्षणेन सचिचसुख-रूपतया
8
अकिरयं — अपरिच्छिन्नतया क्रियारहितं आत्मानं विविच्य पृथक्कृत्य
9
तत्र प्रत्यगात्मनि सर्वं दृश्यवर्गं प्रविलाप्य प्रकर्षेण विलाप्य
10
अपुनस्स्मरण-प्रत्यगात्मव्यतिरेकेण किमपि नास्तीति विनिश्चित्य
11
तदात्मना अधिष्ठान-भूत-प्रत्यगात्मना यस्तिष्ठति सर्वदा वर्तते स मुक्तः
12
इत्यात्मानात्मविवेकेन आत्मनि समारोपितानात्म-बाधेन लभ्यधा इति प्रपञ्चप्रविलापनं विवेकिना कर्तव्यमित्युक्तं भवति ॥१५५॥
Śloka 154
All Ślokas
Śloka 156