विवेकचूडामणि
Śloka 156
155
All
157
Glossary
विवेकचूडामणि
Śloka 156
100%
Commentary — व्याख्या
1
अन्नाद्भवनमुत्पत्तयेऽस्य सः अन्नभवनः — मातापितृ-भुक्तान्नविकाराद्धि अस्योत्पत्तिरिति तथा
2
अयं देहः परिदृश्यमानः स्थूलदेहः अन्नमयस्तु कोशः
3
"अन्नाद्वै प्रजाः प्रजायन्ते, अथो अन्नेनैव जीवन्ति" इतिश्रुतेः
4
न केवलमुत्पत्या अन्नविकारत्वं उत्पत्यनन्तरमपि अन्नेन जीवति धृतप्राणो भवति
5
तद्विहीनः विनश्यति म्रियते उत्क्रान्तप्राणो भवतीत्यर्थः
6
अतः अन्वयव्यतिरेकाभ्यां अन्नाधीनस्थितकत्वं तस्य हि निश्चयः
7
न केवलं परायत्नोत्पत्तिस्थितकत्वं अनात्मत्वे हेतुः — अशुद्धत्वं चेत्याह त्वगिति
8
त्वक्चर्म-मांसरुधिरास्थि-पुरीषराशिः स्पष्टम्
9
अयं देहः नित्यशुद्धः "अजो नित्यः" "शुद्धमपापविद्धं" इत्यादिश्रुति-बोधित-नित्यशुद्धवादि-धर्मकः स्वयमात्मा भवितुं नाहेति
10
देहो नात्मा अनित्यत्वात् अशुद्धत्वात् केशादिवत् ॥१५६॥
155
All
157
En