विवेकचूडामणि
Śloka 157
Glossary
View Book
Verse
श्लोकः
Expand all
1
पूर्वं जनेरपि मृतेरथ नायमस्ति
2
जातक्षण-क्षण-गुणोनियतस्वभावः ।
3
नैको जडश्च घटवत्परिदृश्यमानः
4
स्वात्मा कथं भवति भाविकारवेत्ता ॥१५७॥
Śloka 156
All Ślokas
Śloka 158
Commentary
व्याख्या
Expand all
1
जनेः उत्पत्तेः पूर्वं मरणस्य अथ अनन्तरं अपि — उभयत्र संबध्यते
2
"आदावन्ते च वर्तमानेपि तथा" इति माण्डूक्यकारिकया अनिवचनीयः दृष्टनष्टस्वरूपतया इत्यर्थः
3
तदेवोप्पादयति जातक्षण-क्षणगुण इति — क्षणे क्षणे गुणः क्षणक्षणगुणः जातः क्षणक्षणगुणः यस्य सः
4
वायुसंयोगादिना आध्यात्मिकावायुसंचारेण अन्तः शोषादिना च अत एव पुनःपुनराहरणं जलपानादिकं च
5
अत एव नियतस्वभावः — अनियतस्वभावः एकरूपतया न व्यवस्थित इत्यर्थः
6
नैकः — एकस्मिन्जन्मन्यपि बाल्ययौवनादिषु भिन्नत्वेन ज्ञायमानश्चेत्यर्थः
7
घटवत्परिदृश्यमानः — अत एव जडश्च पराधीनस्फूर्तिः
8
एतादृशदेहः भाविकारवेत्ता — इदानीं कृशः इदानीं स्थूलः इत्यादिनाभाव-विकारवेत्ता स्वात्मा कथं भवति
9
स्वेनात्मत्वं न हि — इह घट एव घटं पश्यति
10
अतो देहो नात्मा दृश्यत्वात् घटवदित्युक्तं भवति — आत्मा तु नित्यः निर्गुणः एकरूपः एकः द्रष्टा च ॥१५७॥
Śloka 156
All Ślokas
Śloka 158