विवेकचूडामणि
Śloka 159
158
All
160
Glossary
विवेकचूडामणि
Śloka 159
100%
Commentary — व्याख्या
1
तस्य देहस्य धर्माः रूपस्पर्शगन्धादयः
2
तत्कर्माणि हिताहितप्राप्ति-परिहारार्थक्रियाः गमनादयः
3
तदवस्थाः उपवेशनस्थानशयनादयः — आदिपदेन स्थोल्यकार्श्यादिविकाराः
4
देहश्च तद्धर्मश्च तत्कर्माणि च तदवस्थाश्च देहतद्धर्म-तत्कर्मतदवस्थादीनि तेषां साक्षाद्रष्टा
5
तस्य सत एव सर्वावस्थासु बाल्यादिषु भिन्नभिन्नकालिकावस्थास्वपि अविकारितया
6
कालत्रयेपि व्याप्यतया वर्तमानस्यैव आत्मनः
7
तत्वैलक्षण्यं तस्माद्वैलक्षण्यं देहादिवलक्षणं स्वतः साक्षित्वादेव हेत्वन्तरं विनैव सिद्धं निश्चितम् इत्यर्थः
8
आत्मा देहादिवलक्षणः तत्साक्षित्वात् यत्रैव तत्रैव यथा देहादि ॥१५९॥
158
All
160
En