विवेकचूडामणि
Śloka 160
159
All
161
Glossary
विवेकचूडामणि
Śloka 160
100%
Commentary — व्याख्या
1
शल्यानां कीकसानां राशिः यत्र सः शल्यराशिः
2
मांसलिप्तः मांसेन लिप्तः उपदिग्धः
3
मलपूर्णः मलेन पुरीषेण पूर्णः — दूषिका-सिंघाण-पिञ्जूषादिभिः सहितश्च
4
अत एवातिकश्मलः — अत्यन्तं कश्मलः — स्वेद-दुर्गन्धादिभूयिष्ठतया बहुशुद्धः
5
अयं देहः एतद्विलक्षणः निर्मलः स्वयमात्मा कथं भवेत् इत्यन्वयः
6
अनुमानं तु पूर्वं दर्शितम् ॥१६०॥
159
All
161
En