विवेकचूडामणि
Śloka 17
Glossary
View Book
Verse
श्लोकः
Expand all
1
विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
2
मुमुक्षोरेविहि ब्रह्मजिज्ञासा-योग्यता मता ॥१७॥
Śloka 16
All Ślokas
Śloka 18
Commentary
व्याख्या
Expand all
1
उक्तानि लक्षणानि स्फुटप्रतिपत्तये क्रोडीकृत्याह विवेकिन इति ।
2
यद्वा उक्तं लक्षणं जिज्ञासुत्वं "अतोविचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः" इति ब्रह्मजिज्ञासाविशिष्टः आत्मविद्या-फलभाक्, इदानीं जिज्ञासायां कस्याधिकार इति चेत् पूर्वं अष्टमश्लोके विद्वान् संन्यस्तवाह्यार्थं-सुखस्पृहसन् उपदिष्टार्थं-समीहितात्मा इति दशम-श्लोके धीरेः इतिशब्दसूचितस्य साधनचतुष्टय-संपत्तिविशिष्टस्य इत्याह ।
3
विवेकिन इति । विवेकादिस्वरूपं स्पष्टयिष्यते मूल एवोपरिष्टात् ।
4
ज्ञातुमिच्छा जिज्ञासा, ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा तत्रावगति-पर्यन्तं ज्ञानं सञ्चाय्याया इच्छायाः कर्म ।
5
अखण्डाकारवृत्ति-प्रतिफलितं चैतन्यं जिज्ञासापद-लक्ष्यमाण-विचारस्य फलम् ।
6
सामान्यतो ब्रह्मज्ञानस्य विचारतुर्यैमपि सत्वात् एतादृशमिष्टं संपादनीयं चेत् "दद्यान्नावसरं किञ्चित् कामादीनां मनागपि । आसुप्तेरामृतेः कालं नियद्धेदात्मचिन्तया" इत्युक्तरीत्या सार्वदिक-वेदान्तविचार आवश्यकः ।
7
"देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानवाधकं। आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते" इत्युक्त-ज्ञानं जनयितुं स एव समर्थः ॥१७॥
8
एतादृश-विचारजन्नी या इच्छा तत्र योग्यता विवेकादि-साधनयुतस्यैव नान्यस्येत्येकारबोधितमर्थं अन्वयेन व्यतिरेकेण च स्पष्टयति । साधनानिति ।
Śloka 16
All Ślokas
Śloka 18