विवेकचूडामणि
Śloka 161
160
All
162
Glossary
विवेकचूडामणि
Śloka 161
100%
Commentary — व्याख्या
1
मूढश्चासौ जनश्च मूढजनः विचारहीनः भ्रान्तबुद्धिः मनुष्यः
2
त्वङ्मांसमेदोऽस्थिपुरीषराशौ देहे अहंमिति अहंमिततादात्म्यबुद्ध्या करोति बध्नाति
3
विचारशीलः पुमांस्तु विलक्षणं देहादिलक्षणं परमार्थभूतं कालत्रयेपि बाधायोग्यं
4
निजस्वरूपं वास्तविकं स्वयाथात्म्यं परमात्मानमेव स्वात्मानं जानाति ॥१६१॥
160
All
162
En