विवेकचूडामणि
Śloka 162
161
All
163
Glossary
विवेकचूडामणि
Śloka 162
100%
Commentary — व्याख्या
1
जडस्य पामरस्य अहं देहः इति नतदव्यतिरिक्तः किञ्चित् इति बुद्धिः
2
विदुषस्तु शास्त्रजन्यपरोक्षज्ञानवतः — देहे च जीवे च अहंधीः
3
लौकिकव्यवहारेषु देहे वैदिके स्वर्गाय्यागादिकरणार्थं देहव्यतिरिक्ते जीवे अहंधीः
4
विवेकिज्ञानवतः — विवेकाद्विज्ञानं विवेकिज्ञानं — आत्मानात्म-विवेचनात् आत्मन्यनात्मप्रविलापनेन जातं यद्विज्ञानं साक्षात्कारः
5
महान् परिच्छेदशून्यः आत्मा यस्य सः महात्मा
6
पूर्वं परिच्छिन्नेषु अनात्मसु कोशेषु आत्मत्वधिया अल्प आसीत् — इदानीं तु सम्यग्ज्ञानवान् स्वात्मानं त्रिविधपरिच्छेदशून्यं मन्नुते
7
"यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" "यत्र तस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्" इति श्रुतेः
8
तादृशस्य सदात्मनः सदा सर्वदापि आत्मनि ब्रह्माहमित्येव स्वविषये ब्रह्माहमिति अनुभव इत्यर्थः ॥१६२॥
161
All
163
En