विवेकचूडामणि
Śloka 164
163
All
165
Glossary
विवेकचूडामणि
Śloka 164
100%
Commentary — व्याख्या
1
विद्वान् विवेचनकुशलः
2
असिति मिथ्याभूते देहेन्द्रियादौ देहश्च इन्द्रियाणि च तानि आदीनि यस्य तत् प्राणमनोबुद्ध्यादि तस्मिन्
3
यावत् यावता कालेन भ्रमोदितां भ्रान्तिजनितां अहंतां आत्मबुद्धिं न जहाति न परित्यजति
4
तावत् तावत्कालपर्यन्तं तस्य पुंसः विमुक्तिवार्तापि नास्ति कुतो विमुक्तिरितिभावः
5
एष पुमान् वेदान्तनयान्तदर्श्यपस्तु — वेदान्ता एव नयः शास्त्रं तस्य अन्तः पारः तं द्रष्टुं शीलमस्यास्तीति दर्शी वेदान्तनयान्तदर्शी
6
सोपि अभिमानत्यागं विना न मुक्तिमहेति
7
अतः निरन्तरनिदिध्यासनेन विपरीतभावना त्यक्तव्येति भावः ॥१६४॥
163
All
165
En