विवेकचूडामणि
Śloka 165
164
All
166
Glossary
विवेकचूडामणि
Śloka 165
100%
Commentary — व्याख्या
1
यत् यस्माकारणात् — छायाशरीरे शरीरच्छायायां
2
प्रतिबिम्बगात्रे दर्पणादौ प्रतीयमानगात्रप्रतिबिम्बे
3
स्वप्नदेहे स्वप्नावस्थायां दृश्यमानशरीरे
4
हृदि मनसि कल्पितांगे — कल्पितं च तत् अंगं च कल्पितांगं तस्मिन् जाग्रदवस्थायां मनःकल्पितदेहे
5
यथा तव काचित् आत्मबुद्धिः अहमितिमितिः नास्ति न विद्यते
6
तथैव जीवच्छरीरे च प्राणात्मर्थदेहच्छरीरं तस्मिन्नपि मास्तु
7
द्रष्टुः स्वस्माद् भिन्नत्वेन प्रतीतेः सर्वत्र अविशिष्टत्वात् इति भावः ॥१६५॥
164
All
166
En