विवेकचूडामणि
Śloka 166
Glossary
View Book
Verse
श्लोकः
Expand all
1
देहात्मधीरेव नृणामसद्भ्यां
2
जन्मादिदुःखप्रभवस्य बीजम् ।
3
यतस्तास्त्वं जहि तां प्रयत्नात्
4
त्यक्ते तु चित्ते न पुनर्भवाशा ॥१६६॥
Śloka 165
All Ślokas
Śloka 167
Commentary
व्याख्या
Expand all
1
यतः यस्मात् असद्भ्यः असद्बुद्ध्यानात्मसु — ब्रह्मात्मा-भिनिवेशनात्मसु धीयेपां ते असद्भ्यः
2
तेषां नृणां मनुजानां देहात्मधीरेव देह एवात्मा इति धीः एव
3
जन्मादिदुःखप्रभवस्य — जन्म उत्पत्तिः आदिः येषां मरणादीनां तानि जन्मादीनि तैर्दुःखं तस्य प्रभवः उत्पत्तिः तस्याः बीजं कारणं
4
शरीरगतत्वात् — जन्ममरणं देहिमिति जानानस्य स्वकीयमेवेति ज्ञानात् दुःखं दुष्परिहरमिति भावः
5
ततः सर्वदुःखहेतुत्वात् तां देहात्मधियं प्रयत्नात् श्रवणमनन-निदिध्यासनरूप-शास्त्रीयप्रयत्नात् जहि
6
देहादौ चित्ते त्यक्ते तु — मनःसंचाराभावे वासनात्माप्यभिमानाभावे
7
पुनः भवाशा संसाराशा नैवेत्यर्थः
8
"अहंभावस्य देहेऽस्मिन् निःशेष-विलयाविधिं स्वाधिष्ठानेन युक्तात्मा स्वाध्यासापनयं कुरु" इति वध्यमानत्वात्
9
"देहात्मज्ञानं देहात्मज्ञानवाधकं आत्मन्यैव भवेद्यस्य स जीवन्नपि मुच्यते" इति प्रमाणात् ॥१६६॥
Śloka 165
All Ślokas
Śloka 167