विवेकचूडामणि
Śloka 167
Glossary
View Book
Verse
श्लोकः
Expand all
1
कर्मेन्द्रियैः पञ्चभिरचितोयं प्राणो भवेत्प्राणमयस्तु कोशः ।
2
येनात्मवानन्नमयोनुपूर्णः प्रवर्तते सोऽसकलक्रियासु ॥१६७॥
Śloka 166
All Ślokas
Śloka 168
Commentary
व्याख्या
Expand all
1
पञ्चभिः वाक्पाणिपादायुपस्थाश्यैः कर्मेन्द्रियैः
2
वचनादानविहरणोत्सर्गानन्द-रूपकर्मजनकैः
3
इन्द्रियैः कर्मेण — आकाशादिपञ्चभूतरजोंशजातैः अचितः विशिष्ट इत्यर्थः
4
भूतपञ्चसमष्टिजः कायेः प्राणः — शरीरान्तसंसारी वायुः प्राणमयः तच्छब्दशब्दितः
5
कोशः — अशनाय-पिपासादि-धर्मैः आत्मानावृण्वन्
6
अपिपास-विजिघत्सातोपलब्धिप्रतिबन्धिका — या अहं पिपासातं: क्षुत्पीडितः इत्यादिरूपलब्धि
7
"तस्य पुरुषविधतां अन्वयं पुरुषविधः" इति प्राणमयपर्यवस्थ-श्रुत्यर्थमाह
8
येन प्राणमयेन आनन्दमय-विज्ञानमय-मनोमयद्वारा आत्मप्रतिफलनत्वेन आत्मवता
9
अन्नमयः "तस्मादेत्तस्मादन्नरसमयात् अन्योत्तर आत्मा प्राणमयः" इति श्रुतेः आत्मप्रतिफलवान्
10
तत्र हेतुः अनुपूर्ण इति "स एष इह प्रविष्ट आ नखाग्रेभ्यः" इतिश्रुतेः
11
यथाविधसन् सकलक्रियासु हिताहितप्राप्तिपरिहारार्थसु प्रवर्तेते
12
अचेतनं चेतनाविशिष्टं कार्यं करोतीति न्यायात्
13
यद्भागे प्राणसंबंधो नास्ति तत्र निर्व्यापारत्वं लोकसिद्धिमिति — मृते तदभावादेव आत्मसंबद्धद्वाराभावात् अचेतनत्वं
14
अत्र समिष्टव्यिष्टकार्यत्वविशेषसत्वेपि रजोगुणकार्यत्वं समानमिति कर्मेन्द्रियाणां प्राणमयत्वर्भाव इति मन्तव्यम् ॥१६७॥
Śloka 166
All Ślokas
Śloka 168