विवेकचूडामणि
Śloka 168
Glossary
View Book
Verse
श्लोकः
Expand all
1
नैवात्मायं प्राणमयो वायुविकारो
2
गन्तागन्ता वायुवदन्तर्बहिरेषः ।
3
यस्मात्किञ्चित्वापि न वेत्तीष्टमनिष्टं
4
स्वं वान्यं वा किञ्चन्नित्यं परतन्त्रः ॥१६८॥
Śloka 167
All Ślokas
Śloka 169
Commentary
व्याख्या
Expand all
1
वायुविकारः वायोर्विकारः वायुविकारः वायुकार्यः — अयं प्राणमयः नैवात्मेति प्रतिज्ञा
2
तत्र हेतुः — वायुवत् एषः प्राणमयः अन्तः बहिः गन्ता आगन्ता — उच्छ्वासनिःश्वासे बहिरागन्ता
3
यथा बाह्यवायुः सक्रियः परिच्छिन्नरूपः — सर्वव्यापी निष्क्रियः आत्मा न भवति
4
सक्रियत्वात् परिच्छिन्नत्वात् बाह्यवायुविदित सदृष्टान्तो हेतुः
5
एवमचेतनत्वं परतन्त्रं च अनात्मत्वे हेतुमाह उत्तरार्धेन
6
यस्मादयं प्राणमयः इष्टमनिष्टं वा स्वयं कुत्रापि कस्मिन्नपि काले देशे वा — स्वं वा अन्यं वा न वेति न जानाति
7
नित्यं परतन्त्रः — जीवनयोनियलज्यत्यसंचारवत्वात् प्राणायामादिकाले तस्य निरुध्यमानत्वं प्रसिद्धं
8
अतः सक्रियत्व-परिच्छिन्नत्वाचेतनत्व-पराधीनत्वहेतुभिः एतद्विलक्षणः आत्मा न भवति
9
यद्यमात्मा तहि सुषुप्तिदशायां जागरकत्वात् चोरादिवाधां जानीयात्
10
आत्मनः सर्वप्रधानत्वात् स्वभूलेषु चक्षुरादिषु स्वपल्तु स्वयं व्यापारवानिति विरुद्धं च अत नैवात्मायं प्राणमयः ॥१६८॥
Śloka 167
All Ślokas
Śloka 169