विवेकचूडामणि
Śloka 169
Glossary
View Book
Verse
श्लोकः
Expand all
1
ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्
2
कोशो ममाहिमति वस्तुविकल्पहेतुः ।
3
संज्ञादिभेदकलना-कलितो बलीयान्
4
तत्पूर्वकोशमनुपूर्यं विजुम्भते यः ॥१६९॥
Śloka 168
All Ślokas
Śloka 170
Commentary
व्याख्या
Expand all
1
श्रवणदर्शनादि-कार्यकरणानि ज्ञानेन्द्रियाणि — श्रोत्रचक्षुस्त्वग्जिह्वाघ्राणानि
2
मनः — कामसंकल्प-विचिकित्सा-श्रद्धादिवृत्तिकं
3
मनोमयः तथाशब्दितः कोशः स्यात्
4
सर्वेन्द्रियव्यापारस्यापि मनोधीनतया इन्द्रियाभावेपि स्वात्तनु सत्त्वाच्च मनोमयः इति संज्ञा न तु श्रोत्रमयः इति संज्ञा इति भावः
5
ममाहिमिति वस्तुविकल्पहेतुः — देहेन्द्रियादौ गृहेक्षेत्रादौ अहंतां ममतां च मन एव संकल्पविकल्पात्मकत्वात् जनयति
6
संज्ञादिरूपभेदकलना — संज्ञा नाम, आदिपदेन रूपं भेदत् इति भेदः
7
संज्ञादिरूपः यो भेदः अस्य वस्तुनः घटः कलशः कुम्भ इत्यादिसंज्ञा — पृथुबुध्नोदराकाराः रूपं नीलपीतादिकं च
8
सर्वपदार्थेष्वपि भिद्यमान-नामरूपादिविषयककलनया कलितः विशिष्ट इत्यर्थः
9
सर्वा अपि वृत्तयः शब्दविषयिण्यः अर्थविषयिण्यश्च मनः आश्रित्य वर्तन्ते
10
अतः शब्दार्थातिरेक-प्रपञ्चस्य स्वभावाभावात् सर्वोपि पञ्चः मनसि स्वविषयकवृत्तिमत् वर्तत इति
11
बलीयान् — बन्धस्य मोक्षस्य च एतदधीनत्वात् अन्नमये प्राणमये वा ज्ञानशक्यमाभावात् ततो बलिष्ठत्वं अस्य
12
तत्पूर्वकोशमनुपूर्यं — तस्य पूर्वकोशः तत्पूर्वकोशं — अन्नप्राणमयकोशं — तस्य अनुपूर्यं
13
विज्ञानमयकोशेन स्वयं निर्गल्य स्वकार्यं करोति स मनोमय इत्यन्वयः
14
तत्र अपि श्रुतिः "स वा एष पुरुषविध एव तस्य पुरुष-विधतां अन्वयं पुरुषविधः" इति ज्ञेया ॥१६९॥
Śloka 168
All Ślokas
Śloka 170