विवेकचूडामणि
Śloka 170
169
All
171
Glossary
विवेकचूडामणि
Śloka 170
100%
Commentary — व्याख्या
1
सुखप्रतिपत्तये मनोमयमग्निलत्वेन श्रोतादीन्द्रियाणि होतृत्वेन पुनः पुनः संततेत विषयानाज्यधारात्वेन विषयवासना इन्धनत्वेन रोपयति
2
पञ्च च तानि इन्द्रियाणि च पञ्चेन्द्रियाणि — श्रोत्रचक्षुस्त्वग्जिह्वाघ्राणानि तैरेव पञ्चभिः होतृभिः
3
हविर्मिन्सयोगानुकूल-व्यापारवद्धिः प्रक्षेप्तृभिः
4
विषयाज्यधारया — विषयाः शब्दस्पर्श-रूपरसगन्धाः त एव आज्यं तस्य धारा तया प्रचीयमानः संवृध्यमानः
5
तत्तदिन्द्रियैः नारन्तयेण तत्तदिन्द्रियेषु निपात्यमानत्वात्
6
इत्थमेव सत्यु आज्यधारा चेत् ज्वलनमधिकं — अतः आह बहुवासनेन्धनैरिति
7
बहव्यः याः वासनाः — "दृढभावनायात्यक्तपूर्वापरिचचारण। यदादानं पदार्थस्य वासना सा प्रकीर्तिता" इति
8
बन्धकलेपिं विषयाणां मुखकरत्वभ्रान्त्या तेषूपादेयत्वभावनाः ता एव इन्धनानि शुष्ककाष्ठानि
9
इन्धने केवलाज्यज्वलनहेतुत्वाभावात् — वासनाभावे विषयाणां बन्धकलत्वाभावाच्च
10
तैः बहुवासनेन्धनैः जाज्वल्यमानः पौनःपुन्येन निरन्तरं ज्वलन् मनोमयः मनोरूपः अग्निः
11
प्रपञ्चं दहति भस्मीकरोति सर्वान् पुरुषान् पुरुषार्थयोग्यान् करोतीति यावत् ॥१७०॥
169
All
171
En