विवेकचूडामणि
Śloka 18
Glossary
View Book
Verse
श्लोकः
Expand all
1
साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।
2
येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥१८॥
Śloka 17
All Ślokas
Śloka 19
Commentary
व्याख्या
Expand all
1
लोके यस्य तावत् कार्यवेनाभिमत-समानाधिकरणात्यन्ताभाव-प्रतियोगित्वं स्वसमानाधिकरणात्यन्ताभाव-प्रतियोगि-कार्यत्वाभिमत-कत्वं वा तस्य तत्कारणत्वं न संभवति ।
2
यथा पटसमानाधिकरणात्यन्ताभावप्रतियोगिनी मृत्, मृत्समानाधिकरणात्यन्ताभाव-प्रतियोगिपटवती वा सा पटकारणत्वं नाश्नुते ।
3
अपितु मृत्सत्त्वे घटसत्त्वं मृद्भावे घटाभाव इत्यन्वयव्यतिरेकसहचारग्रहणात् घटकारणत्वं भजते ।
4
एवं विवेकादि-चतुष्टयसत्त्वे एव [ज्ञाति] ब्राह्मणि नितरां स्थितिरयोजक-ब्रह्मजिज्ञासायाः सम्भवात् तदभावे अन्वयसहचार-ग्राहीणां तेषां विवेकादीनां संनिष्ठापर्यय-फलपर्यन्त-ब्रह्मजिज्ञासा-कारणत्वादगतिः इत्युक्तम् ।
5
मनीषिभिः कथितानीति । तत्र मनीषित्वं च श्रुतितात्पर्य-ज्ञानत्वं श्रुत्यवलम्बनाभावे एतादृशाधिकारिविशेषणानां दुर्ज्ञानत्वात् ।
6
तादृशाश्च मनीषिणः बादरायणप्रभुतयः । ते किल "अथातो ब्रह्म-जिज्ञासा" इति सूत्रघटकशब्देन साधनचतुष्टय-संपत्यानन्तर्यं सूत्रयन्त्यन्तः ब्रह्मजिज्ञासाधिकारिण-मेवंविधं सूत्रयामसुः इति शारीरकमीमांसाधि-करण-तृतीयवर्णक-भाष्यदर्थतोऽवगम्यते ।
7
एतादृशविशेषणलूभकश्रुतयस्तु, "यत्कृतक तदनित्यं" इति न्यायवती "तद्यथेह कर्मचितो लोक: क्षीयते एवमेवामुत्र पुण्यचितो लोक: क्षीयते" "यो वै भूमा तदमृतम् अतोन्यदार्त्तं" "न जायते व्रियते वा परिश्चत्" इत्यादिश्रुतिः नित्यत्वं अनात्मनः अनित्यत्वं च बोधयतीतिविवेक-लम्भिका ।
8
"परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन" "न वा अरे पत्युः कामायेतरस्य आत्मनस्तु कामाय सर्वप्रियं भवति" इत्यन्ता श्रुतिः अनात्मवस्तु-वैराग्यप्रादिका ।
9
"शान्तो दान्त उपरतितितिक्षुः समाहितश्रद्धावित्तो भूत्वाऽत्मन्येवात्मानं पश्येत्" इतिश्रुतिः शमादिषट्कं बोधयति ।
10
"न स पुनरावर्तते" इति श्रुतिः मोक्षस्य नित्यत्वं वदन्ती तत्रेच्छामोदधाति ।
11
उपनिषदर्थवादत्वं वदतां कर्ममीमांसकानां मते एतासां स्वार्थे तात्पर्यनास्तीत्येव ज्ञानसंभवात् "ब्रह्मजिज्ञासितव्यं तत्र च ज्ञानस्य दुर्लभत्वात् मनीषिभिः कथितानीत्युक्तम् ।
12
तथाच प्रमाणान्तरानधिगत-कालत्रयाव्याप्य-परमपुरुषार्थ-स्वरूपब्रह्म-प्रतिपादकत्व-दूपनिषदां तात्विकप्राामण्यस्यत्रैव संभवात् तत्तदाख्य-समंपित-विवेकादिविशिष्टस्यैव "सोऽन्वेष्टव्यः स विजिज्ञासितव्यः" इत्यादिवाक्यविहित-जिज्ञासायोग्यतेति सर्वं चतुरस्म ॥१८॥
13
तत्र विवेकिनो विरक्तस्येत्यादिना कथितं विवेकादिकं क्रमतो निदिश-नादाद्यादितयादिना ।
Śloka 17
All Ślokas
Śloka 19